SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ..... १०९ श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः - ४ दादत्तादानमैथुनपरिग्रहेषु वर्तमाना असंयतायूयं वर्तमानसुखैषिणोऽल्पेनवैषयिकसुखाभासेन पारमार्थिकमेकान्तात्यन्तिकं बहु मोक्षसुखं विलुम्पथेति, किमिति यतः पचनपाचनादिषु क्रियासु वर्तमानाः सावद्यानुष्ठानारम्भतया प्राणातिपातमाचरथ तथा येषां जीवानां शरीरोपभोगो भवद्भिःक्रियते तानि शरीराणि ततस्वामिभिरदत्तानीत्यदत्तादानाचरणं तथा गोमहिष्यजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रह्मेति तथा प्रव्रजिता वयमित्येवमुत्थाय गृहस्थाचरणानुष्ठानान्मृषावादः तथा धनधान्यद्विपदचतुष्पदादिपरिग्रहात्परिग्रह इति साम्प्रतं मतान्तरदूषणाय पूर्वपक्षयितुमाह- (गाथा पञ्चकः) मू. (२३३) एवमेगे उ पासत्था, पन्नवंति अनारिया। ___ इत्थीवसं गय बाला, जिनसासनपरम्मुहा॥ वृ. तुशब्दः पूर्वस्माद्विशेषणार्थ, 'एवमिति वक्ष्यमाणया नीत्या, यदिवा प्राक्तन एव श्लोकोऽत्रापि सम्बन्धनीयः, एवमिति प्राणातिपातादिषु वर्तमाना 'एके' इति बौद्धविशेषा नीलपटादयोनाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः, सदनुष्ठानात् पार्श्वेतिष्ठन्तीतिपार्श्वस्थाः, स्वयूथ्या वा पार्श्वस्थावसन्नकुशीलादयः स्त्रीपरीषहपराजिताः। त एवं 'प्रज्ञापयन्ति' प्ररूपयन्ति अनार्या, अनार्यकर्मकारित्वात्, तथाहि ते वदन्ति"प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा । किमित्येवं तेऽभिदधतीत्याह-'स्त्रीवशं गताः' यतो युवतीनामाज्ञायां वर्तन्ते 'बाला' अज्ञा रागद्वेषोपहतचेतस इति, रागद्वेषजितो जिनास्तेषां शासनम्-आज्ञा कषायमोहोपशमहेतुभूता तत्पराङ्मुखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वेषिणः 'एतद्' वक्ष्यमाणमूचुरिति ॥ मू. (२३४) जहा गंड पिलागं वा, परिपीलेज मुहत्तगं। एवं चिन्नवणित्धीसु, दोसो तत्थ कओ सिआ।। वृ. यदूचुस्तदाह-यथेत्युदाहरणोपन्यासार्थ, 'यथा' येन प्रकारेण कश्चित् गण्डी पुरुषो गण्डं समुत्थितंपटिकंवा तज्जातीयकमेव तदाकूतोपशमनार्थ परिपीड्य' पूयरुधिरादिकंनिर्गाल्य मुहूर्तमात्रं सुखितो भवति। नचदोषेणानुषज्यते, एवमत्रापि स्त्रीविज्ञापनायां युवतिप्रार्थनायां रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतः स्यात् ?, न ह्येतावता क्लेदापगममात्रेण दोषो भवेदिति ।। मू. (२३५) जहा मंधादए नाम, थिमिअंभुंजती दर्ग। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ। १. स्यात्तत्र दोषो यदि काचित्पीडा भवेत्, न चासाविहास्तीति द्दष्टान्तेन दर्शयति 'यथे' त्ययमुदाहरणोपन्यासार्थ, 'मन्धादन' इति मेषः नामशब्दः सम्भावनायां यथा मेषः तिमितम् अनालोडयन्नुदकं पिबत्यात्मानं प्रीणयति । न च तथाऽन्येषां किञ्चनोपधातं विधत्ते, एवमत्रापि स्त्रीसम्बन्धे न काचिदन्यस्य पीडा आत्मनश्च प्रीणनम्, अतः कुतस्तत्र दोषः स्यादिति ॥ मू. (२३६) जहा विहंगमा पिंगा, थिमिअंभुंजती दगं। एवं विनवणित्थीसु, दोसो तत्थ कओ सिआ! || वृ. अस्मिन्नेवानुपधातार्थे दृष्टान्तबहुत्वख्यापनार्थं द्दष्टान्तान्तरमाह-'यथा' येन प्रकारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy