SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० सूत्रकृताङ्ग सूत्रम् १/३/४/२३६ विहायसा गच्छतीति विहंगमा-पक्षिणी पिंगे'ति कपिञ्जला साऽऽकाश एव वर्तमानाः 'तिमितं' निभृतमुदकमापिबति, एवमत्रापि दर्भप्रदानपूर्विकया क्रिययाअरक्तद्विष्टस्य पुत्राद्यर्थं स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति । साम्प्रतमेतेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसशं परपीडाऽनुत्पादकत्वेन परात्मनोश्च सुकोत्पादकत्वेन किल मैथुनं जायत इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शेन किल भवत्येवमरक्तद्विष्टतया दर्भाधुत्तारणात् स्त्रीगात्रासंस्पर्शेन पुत्रार्थं न कामार्थं ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेऽपि न दोषानुषङ्गः, तथा चोचुस्ते॥१॥ “धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, दोषस्तत्र न विद्यते ।। इति, एवमुदासीनत्वेन व्यवस्थितानां दृष्टान्तेनैव नियुक्तिकारोगाथात्रयेणोत्तरदानायाहनि. [५३] जह नाम मंडलग्गेण सिरं छेतून कस्सइ मणुस्सो। अच्छेज पराहुत्तो किं नाम ततो न धिप्पेज्जा ।। नि. [५४ जह वा विसगंडूसं कोई धेत्तूण नाम तुण्हिको। अन्नेण अदीसंतो किं नाम ततो न व मरेज्जा ।। नि. [५५] जह नाम सिरिधराओ कोइ रयणाणि नाम धेत्तूणं । अच्छेज्ज पराहुत्तो किं नाम ततो न धेप्पेजा ॥ __यथा नामकश्चिन्मण्डलाग्रेण कस्यचिच्छिरश्चित्वापराङ्मुखस्तिष्ठेत. कितावतोदासीनभावावलम्बनेन ‘न गृह्येत' नापराधी भवेत् । तथा यथा कश्चिद्विषगण्डूषं 'गृहीत्वा पीत्वा नाम तूष्णींभावं भजेदन्येन चादृश्यमानोऽसौ किं नाम 'ततः' असावन्यादर्शनात् न म्रियेत? तथा - यथा कश्चित्श्रीगृहाद्-भाण्डागाराद्रत्नानिमहाणि गृहीत्वा पराङ्मुखस्तिष्ठेत्, किमेतावताऽसौ न गृह्येतेति? । अत्र च यथा-कश्चित् शठतया अज्ञतया वा शिरश्छेदविषगण्डूषरलापहाराख्ये सत्यपि दोषत्रये माध्यस्थ्यमवलम्बेत, न च तस्य तदवम्बनेऽपि निर्दोषतेति, एवमत्राप्यवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्द्धके कुतो निर्दोषतेति, तथा चोक्तम् - ॥१॥ ___ "प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलकातप्तकणकप्रवेशज्ञाततस्तथा ।। ॥२॥ मूलं चैतदधर्मस्य, भवभावप्रवर्धनम्। तस्माद्विषान्नवत्त्वाज्यमिदं पापमनिच्छता॥ -इति नियुक्तिगाथात्रयतात्पर्यार्थ ।। मू. (२३७) एवमेगे उ पासत्था, मिच्छदिट्ठी अनारिय। अज्झोववन्ना कामेहि, पूयणा इव तरुणए ।। वृ. साम्प्रतं सूत्रकार उपसंहारव्याजेन गण्डपीडनादिद्दष्टान्तवादिनांदोषोद्विभावविषयाह‘एव' मिति गण्डपीडनादिदृष्टान्तबलेन निर्दोष मैथुनमिति मन्यमाना ‘एके' स्त्रीपरीषहपराजिताः सदनुष्ठानात्पार्थं तिष्ठन्तीति पार्श्वस्था नाथवादिकमण्डलचारिणः, तुशब्दात् स्वयूथ्या वा, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy