________________
४७
श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - २ मू. (५४) एते उतउ आयाणा, जेहिं कीरइ पावगं ।
एवं भावविसोहीए, निव्वाणमभिगच्छइ ।। वृ.तुरवधारणे, ‘एतान्येव पूर्वोक्तानित्रीणि व्यस्तानिसमस्तानिवाआदानानि यैर्दुष्टाध्यवसायसव्यपेक्षैः पापकं कर्मोपचीयत इति, एवं चस्थितेयत्र कृतकारितानुमतयः प्राणिव्यपरोपणं प्रतिनविद्यन्तेतथा 'भावविशुद्धया' अरक्तद्विष्टबुध्ध्याप्रवर्तमानस्य सत्यपिप्राणातिपाते केवलेन मनसा कायेन वा मनोऽभिसंधिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयः ।
तदभावाञ्च निर्वाणं' सर्वद्वन्द्वोपरतिस्वभावम् ‘अभिगच्छति' आभिमुख्येन प्राप्नोतीति भावशुद्धया प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाहमू. (५५) पुत्तं पिया समारब्भ, आहारेज्ज असंजए।
भुंजमाणो य मेहावी, कम्मणा नोवल्लिप्पइ ।। वृ. 'पुत्रम्' अपत्यं 'पिता' जनकः ‘समारभ्य' व्यापाद्य आहारार्थ कस्याञ्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्ट: 'असंयतो' गृहस्थस्तपिशितं भुञ्चाानोऽपिचशब्दस्यापिशब्दार्थत्वादिति, तथा 'मेघाव्यपि' संयतोऽपीत्यर्थ, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि 'कर्मणा' पापेन 'नोपलिप्यते' नाश्लिष्यत इति ।
यथा चात्र पितुः पुत्र व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मवन्धो भवतीति साम्प्रमेतद्दूषणायाहमू. (५६) मनसा जे पउस्संति, चित्तं तेसिं न विजइ।
अणवञ्जमतहं तेसिं, न ते संवुडचारिणो ।। वृ. ये हि कुतश्चिन्निमित्तात् ‘मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषमुपयान्ति तेषां' वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितं-यथा केवलमनःप्रद्वेषेऽपि अनवा' कर्मोपचयाभाव इति, तत् तेषाम् ‘अतथ्यम्' असदर्थाभिधायित्वं, यतो न ते संवृतचारिणो, मनसोऽशुद्धत्वात्, तथाहि-कर्मोपचयेकर्तव्येमन एव प्रधानं कारणं, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयभावोऽभिहितः, ततश्चयत् यस्मिन् सति भवत्यसतितुन भवति तत्तस्य प्रधानं कारणमिति, ननु तस्यापिकायचेष्टारहितस्याकारणत्वमुक्तं, सत्यमुक्तम्, अयुक्तं तूक्तं, यतो भवतैव एवं भावशुद्धया निर्वाणमभिगच्छती'तिभणतामनस एवैकस्य प्राधान्यमभ्यधायि, तधाऽन्यदप्यभिहितं। ॥१॥ “चित्तमेव हि संसारो, रागादिक्लेशवासितम्।
तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ।।
-तथाऽन्यैरप्यभिहितं॥१॥“मतिविभव! नमस्तेयत्समत्वेऽपिपुंसां, परिणमसि शुभांशै कल्मषांशैस्त्वमेव ।
नरकनगर वहँ प्रस्थिताः कष्टमेके, उपचितशुभशकल्या सूर्यसंभेदिनोऽन्ये तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति, तथेपिथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति ततोऽप्रमत्तत्वादबन्धक एव, तथा चोक्तम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org