SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४६ सूत्रकृताङ्ग सूत्रम् १/१/२/५२ आकुट्टनमाकुट्टः स विद्यतेयस्यासावाकुट्टी नाकुट्टयनाकुट्टी, इदमुक्तं भवति-योहि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानांछेदनभेदनादिके व्यापारे वर्तते न तस्यावा, तस्य कर्मोपचयोन भवतीत्यर्थ, तथा अबुधः' अजानानः कायव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावन्न कर्मोपचय इति, अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा 'चतुर्विधंकर्मनोपचीयतेभिक्षुसमय' इति, तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपात्तं, शेषं त्वीर्यापथस्वप्नान्तिकभेदद्वयं च शब्देनोपात्तं तत्रेरणमीर्या - गमनं तत्सम्बन्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम्, एतदुक्तं भवति - पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यप्राणिव्यापदनं भवति तेन कर्मणश्चयो न भवति, तथा स्वप्नान्तिकमिति-स्वप्न एव लोकोक्या स्वप्नान्तः स विद्यते यस्य तत्स्वप्नान्तिकं, तदपिन कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्तयभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?, उच्यते, यद्यसौ हन्यमानः प्राणी भवति हन्तुश्च यदि प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चानां पदानांद्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेष्वेकत्रिंशत्स्वहिंसकः, तथा चोक्तम् - ॥१॥ "प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा॥ किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयोन भवत्येव? भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह-'पुढो तितेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन चचतुर्विधेनापिकर्मणा ‘स्पृष्ट' ईषच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति, न तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवस्पर्शानन्तरमेव परिशटतीत्यर्थ, अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवंचकृत्वातद् 'अव्यक्तम् अपरिस्फुटं,खुरवधारणे, अव्यक्तमेव, स्पष्टविपाकानुभवाभावात्, तदेवमव्यक्तं सहावद्येन-गर्येण वर्तते तत्परिज्ञोपचितादिकर्मेति॥ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह-- मू. (५३) संतिमे तउ आयाणा, जेहिं कीरइ पावगं। अभिकम्मा य पेसा य, मणसा अनुजाणिया ।। वृ. सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते-स्वीक्रियते अमीभिः कर्मेत्यादानानि, एतदेव दर्शयति-यैरादानैः क्रियते' विधीयते निष्पाद्यते 'पापकं' कल्मषं, तानि चामूनि, तद्यथा'अभिक्रम्ये ति आभिमुख्येन वध्यं प्राणिनं क्रान्त्वा-तद्घाताभिमुखं चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकंकर्मादानं, तथाऽपरंचप्राणिघाताय प्रेष्यं समादिश्ययप्राणिव्यापादनं तद्दितीयं कर्मादानमिति, तथाऽपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत्त तीयं कर्मादानं । परिज्ञोपचितादस्यायं भेदः-तत्र केवलं मनसा चिन्तमिह त्वपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति ॥ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिधाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेतिदर्शयितुमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy