________________
१८०
सूत्रकृताङ्ग सूत्रम् १/८/-1४१०/ नि. [९६]
॥१॥ “सव्वनईणंजा होज्ज वालुया गणणमागया सन्ती ।
तत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स ।। ॥२॥ सव्वसमुद्दाण जलं जइपत्थमियं हविज संकलियं ।
एत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स । तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति । सर्वमप्येतद्वीर्यं त्रिधेति प्रतिपादयितुमाहनि. [९७] सव्वंपिय तंतिविहं पंडिय बालविरियं च मीसंच।
अहवावि होति दुविहं अगारअनगारियं चेव ॥ धृ. सर्वमप्येतद्भाववीर्यं पण्डितबालमिश्रभेदात् त्रिविधं, तत्रानगाराणां पण्डितवीर्य बालपण्डितवीर्यंत्वगाराणां गृहस्थानामिति, तत्रयतीनांपण्डितवीर्यं सादिसपर्यवसितं, सर्वविरति प्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तं, बालपण्डितवीर्यंतु देशविरतिसद्भावकाले सादि सर्वविरतिसद्भावे तम्रशे वा सपर्यवसानं, बालवीर्यं त्वविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितं भव्यानां त्वनादिसपर्यवसितं, सादिसपर्यवसितं तु विरतिभ्रंशात् सादिता पुनर्जधन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोपार्द्धपुद्गलपरावर्तात् विरतिसद्भावत् सोन्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गकस्य त्वसम्भव एव, यदिवा।
पण्डितवीर्यं सर्वविरतिलक्षणं, विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशम. लक्ष्णात्त्रिविधैव, अतो वीर्यमपि त्रिधैव भवति ।गतोनामनिष्पन्नो निक्षेपः, तदनुसूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुञ्चारयितव्वं, तचेदंमू. (४११) दुहा वेयं सुयक्खायं, वीरियंति पुवुच्चई।
किं नु वीरस्स वीरत्तं, कहं चेयं पवुच्चई ।। वृ. द्वे विधे-प्रकारावस्येति द्विविधं-द्विप्रकारं, प्रत्यक्षासनवाचित्वात् इहमो यदनन्तरं प्रकर्षेणोच्यते प्रोच्यते वीर्यं तद्विभेदं सुष्ठाख्यातं स्वाख्यातं तीर्थकरादिभिः, वा वाक्यालङ्कारे, तत्र 'ईरगतिप्रेरणयोः' विशेषेणईरयति-प्रेरयति अहितं येन तद्वीर्यं जीवस्य शक्तिविशेष इत्यर्थ
तत्र, किं नु ‘वीरस्य' सुभटस्य वीरत्वं?, केनवाकारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति-किं तद्वीर्यं ?, वीरस्य वा किं तद्वीरत्वमिति ।। मू. (४१२) कम्ममेगे पवेदेति, अकम्मं वावि सुव्वया।
एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया॥ वृ. तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह-कर्म-क्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति, यदिवा-कर्माष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहिऔदयिकभावनिष्पन्नं कर्मेत्युपदिश्यते, औदयिकोऽपिच भावः कर्मोदयनिष्पन्न एव बालवीर्य।
द्वितीयभेदस्त्वयं-न विद्यते कर्मास्येत्यकर्मा-वीर्यान्तरायक्षयजनितं जीवस्य सहर्ज वीर्यमित्यर्थः, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितंच, हेसुव्रता एवम्भूतंपण्डितवीर्य जानीतयूयं ।आभ्यामेवद्वाभ्यां स्थानाभ्यांसकर्मकाकर्मकापादितबालपण्डितनीर्याभ्यां व्यवस्थित वीर्यमित्युच्यते, यकाभ्यांचययोर्वा व्यवस्थिता मत्येषुभवामाः 'दिस्संत' इति श्यन्तेऽपदिश्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org