SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७९ श्रुतस्कन्धः - १, अध्ययनं-८, छत्रकवद्धर्तुमयलेनैव च मन्दरमिति । तथा सम्याव्यते अयं दारकः परिवर्धमानः शिलामेनामुद्धा हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्वविषयग्रहण समर्थं पञ्चधा एकैकं, द्विविधंसम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति, सम्भाव्ये तुयस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे तु सति सम्भाव्यते विषयग्रहणायेति । साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाहनि. [९६] उज्जमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं । उवओगजोगतवसंजमादियं होइ अज्झप्पो।। वृ.आत्मन्यदीत्यध्यात्मं तत्र भवमाध्यात्मिकम्-आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा-तत्रोद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, एतदपियथायोगंसम्भवेसम्भाव्येचयोजनीयमिति, धृति संयमे स्थैर्यं चित्तसमाधानमिति(यावत), धीरत्वं परीषहोपसर्गाक्षोभ्यता, शौण्डीर्य त्यागसम्पन्नता, षट्खण्डमपिभरतं त्यजतश्चक्रवर्तिनोन मनः कम्पते, यदिवाऽऽपद्यविषण्णता, यदिवाविषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्यंतुपरैराक्रुश्यमानोऽपिमनागपि मनसा न क्षोभभुपयाति, भावयति तश्चेदम् - ॥१॥ "आक्रुप्टेन मतिमता तत्त्वार्थगवेषणे मति कार्या। यदि सत्यं कः कोपः? स्यादनृतं किं नु कोपेन? ।। ॥२॥ "अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावं मि॥ गाम्भीर्यवीर्यनाम परीषहोपसगैरधृष्यत्वं, यदिवा यत्मनश्चमत्कारकारिण्यपिस्वानुष्ठाने अनौद्धत्यं, उक्तचं॥१॥ “चुल्लुच्छलेइ जं होइ ऊणयं रित्तयं कणकणेइ। भरियाईन खुब्भंती सुपुरिसविनाणभंडाई॥ उपयोगवीर्यं साकारानाकारभेदात् द्विविधं, तत्र साकारोपयोगोऽरधाऽनाकारश्चतुर्धा तेन चोपयुक्तः स्वविषयस्य द्रव्यक्षेत्रकालभावरूपस्य परिच्छेदं विधत्त इति, तथा योगवीर्य त्रिविधं मनोवाक्कायभेदात्, तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तनं, मनसो वा एकत्वीभावकरणं, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाश्च भवन्तीति, वाग्वीर्येणतु भाषमणोऽपुनरुक्तं निरवयंचभाषते, कायवीर्यंतु यस्तुसमाहितपाणिपाद: कूर्मवदवतिष्ठत इति, तपोवीर्यं द्वादशप्रकारं तपो यद्धलादग्लायन् विधत्त इति, एवं सप्तदशविधे संयमे एकत्वाधध्यवसितस्य यद्बलात्प्रवृत्तिस्तत्संयमवीर्य, कथमहमतिचारं संयमे न प्राप्नुयामित्यध्यवसायिनःप्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादिचभाववीर्यमिति, वीर्यप्रवादपूर्वे धानन्तं वीर्यं प्रतिपादितं, किमिति?, यतोऽनन्तार्थं पूर्वं भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तव्या, तद्यथा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy