________________
२४४
सूत्रकृताङ्ग सूत्रम् १/१२/-५५५ स्वभावोपदर्शनं कृतं, तथाऽऽश्रवसंवरौ स्वरूपेणैवोपात्ती, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि, तदविनाभाबित्वाहुःखस्य, निर्जरायास्तु स्वाभिधानेनैवोपादानं, तत्फलभूतसय च मोक्षस्योपादानंद्रष्टव्यमिति, तदेवमेतावन्त एवपदार्थास्तदभ्युपगमेन चास्तीत्यादिकःक्रियावादोऽभ्युपगतो भवतीति, यश्चैतान् पदार्थान् ‘जानाति' अभ्युपगच्छतिस परमार्थतः क्रियावादंजानाति
ननु चापरदर्शनोक्तपदार्थपरिज्ञानेन सम्यकग्वादित्वं कस्मानाभ्युपगम्यते ?, तदुक्तपदार्थानामेवाघटमानत्वात्, तथाहि-नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानीत्येतेषोडश पदार्था अभिहिताः, तत्रहेयोपादेय प्रवृत्तिरूपतयायेनपदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं, तच्चप्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्द्धा, तत्रेन्दियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्षं, तदत्रेन्द्रियार्थयोर्यः संबन्धस्तस्माद्यदुत्पन्नं, नाभिव्यक्तं, ज्ञानं, नसुखादिकम्, अव्यपदेश्यमितिव्यपदेश्यत्वे शाब्दप्राप्तेः,अव्यभिचारितद्धिद्विचन्द्रज्ञानवद्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं, तत्रास्य प्रत्यक्षतान बुध्यते, तथाहि-यत्रात्माऽ. र्थग्रहणं प्रतिसाक्षाद्व्याप्रियतेतदेव प्रत्यक्षं, तच्चावधिमनःपर्यायकेवलात्मकम्, एतच्चापरोपाधिद्वारेण प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षतुस्यात्, न चोपचारस्तत्त्वचिन्तायांव्याप्रियतइति ।
अनुमानमपि पूर्ववच्छेषवत्सामान्यतोहष्टमिति त्रिधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोष्टंतु चूतमेकं विकसितं दृष्ट्वा पुष्पिताधूता जगतीति यदिवा देवदत्तादौ गतिपूर्विकां स्थानात् स्थानन्तरावाप्तिं दृष्ट्वा ऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तया विना कारणस्य कार्यं प्रति व्यभिचारात, यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा-भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तम् - ॥१॥ “अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? ।
___नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्? ॥ अपिच-प्रत्यक्षस्याप्रामाण्ये तत्पूर्वकस्यानुमानस्याप्रामाण्यमिति । प्रसिद्धसाधासाध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सज्ज्ञासज्ज्ञि संबन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणत्वेन तत्रैवान्तर्भावात्पृथकप्रमाणत्वमनुपपन्नमेव, अथ नास्त्यनुपपत्तिस्ततो व्यचिचारादप्रमाणतोपमानस्य । शाब्दमपिन सर्व प्रमाणं, किंतर्हि ?, आप्तप्रणीतस्यैवागमस्य प्रामाण्यं, न चाहद्व्यतिरेकेणापरस्याप्तता युक्तियुक्तेति, एतच्चान्यत्र निर्लोठितमिति।किञ्च-सर्वमप्येतत्त्पमाणमात्मनो ज्ञानज्ञानंचात्मनोगुणः पृथक्पदार्थतयाऽभ्युपगन्तुं नयुक्तो, रूपरसादीनामपिपृथक्पदार्थताऽऽपत्तेः, अथप्रमेयग्रहणेनेन्द्रियार्थतयातेऽप्याश्रिताः, सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि-द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् ।
प्रमेयंत्वात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ताचेच्छाद्वेषप्रयलसुखदुःखज्ञानानुमेयः, सचजीवपदार्थतया गृहीत एवास्माभिरिति, शरीरंतु तस्य भोगायतनं, भोगायतनानीन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org