________________
श्रुतस्कन्धः - १, अध्ययनं - १२,
२४५
जीवाजीव ग्रहणेनोक्तमस्माभिरिति । उपयोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवोपादानतयो पात्त एव । सर्वविषयमन्तःकरणं युगपज्ज्ञानानुत्पत्तिलिङ्ग मनः, तदपि द्रव्यमनः पीद्गलिकमजीवग्रहणेन गृहीतं, भावमनस्त्वात्मगुणत्वाज्जीवग्रहणेनेति । आत्मनः सुखदुःखसंवेदनानां निर्वर्तनकारणं प्रवृत्तिः, सापि पृथक् पदार्थतया नाभ्युपगन्तुंयुक्ता, तथाहि प्रवृत्तिरित्यात्मेच्छा, सा चात्मगुण एव, आत्माऽभिप्रायतया ज्ञानविशेषत्वाद् आत्मानंदू इषयतीति दोष:, तद्यथा अस्यात्मनो नेदं शरीरपूर्वम्, अनादित्वादस्य नाप्यनुत्तरम् अनन्तत्वात्सन्ततेरिति योऽयमात्मनोऽध्यवसायः स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः
प्रेत्यभावः- परलोकसभावोऽयमपि ससाधनो जीवाजीवग्रहणेनोपात्तः, फलमपि सुखःदुखोपभोगात्मकं तदपि जीवगुण एतान्तर्भवतीति न पृथगुपदेष्टव्यमिति, दुःखमित्येतदपि विविधबाधनयोगरूपमिति न फलादतिरिच्यते, जन्ममरणप्रबन्धोच्छेदरूपतया सर्वदुःखप्रहाणलक्षणो मोक्षः, स चास्माभिरूपात्त एवेति । किमित्यनवधारणात्मकः प्रत्ययः संशयः, असावपि निर्णयज्ञानवदात्मगुण एवेति, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं, तदपीच्छाविशेषत्वादात्मगुण एव, अविप्रतिपत्तिविषया- पन्नोऽर्थो दृष्टान्तः, असावपि जीवाजीवयोरन्यतरः, न चौतावताऽस्य पृथक्पदार्थता युक्ता, अतिप्रसङ्गाद्, अवयवग्रहणेन च तस्योत्तरत्र ग्रहणादिति ।
सिद्धान्तश्चतुर्विधः, तद्यथा सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थ सर्वतन्त्रसिद्धान्तः १, यथा स्पर्शनादीनीन्द्रियाणि स्पेशादय इन्द्रियार्थाः प्रमाणैः प्रमेयस्य ग्रहणमिति १, समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तो यथा साङ्ख्यानां नासत आत्मलाभो न च सतः सर्वथा विनाश इति, तथा चोक्तम्- "नासतो जायते भावो नाभावो जायते सतः" इति २, यत्सिद्धावन्यस्यार्थस्यानुषङ्गेण सिद्धि सोऽधिकरणसिद्धान्तः ३, यतेन्द्रियव्यतिरिक्तोज्ञाताऽऽत्माऽस्ति दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति, तत्रानुषङ्गिणोऽर्धा १ इन्द्रियनानात्वं २ नियतविषयाणीन्द्रियाणि ३ स्वविषयग्रहणलिङ्गानि च ४ ज्ञातुर्ज्ञानसाधनानि ५ स्पर्शादिगुणव्यतिरिक्तं द्रव्यं ६ गुणाधिकरण ७ मनियतविषयाश्चेतनाः ८ इति, पूर्वार्थसिद्धावेतेऽर्था सिध्यन्ति, नैतैर्विना पूर्वार्थ संभवतीति अपरीक्षितार्थाभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ४, तद्यथा, किं शब्द इति विचारे कश्चिदाह- अस्तु द्रव्यं शब्दः, स तु किं नित्योऽथानित्यः ?, इत्येवं विचारः, स चायं चतुर्विधोऽपि सिद्धान्तो न ज्ञानविशेषादतिरिच्यते, ज्ञानविशेषस्यात्मगुणत्वाद्गुणस्य च गुणिग्रहणेन ग्रहणाद् न पृथगुपादानमिति ४ ।
३,
अथावयवाः-प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि, तत्र साध्यनिर्देशः प्रतिज्ञा, यथा नित्यः शब्दोऽनित्यो बेति हिनोति - गमयति प्रतिज्ञातमर्थमिति हेतु:, तद्यथा-उत्पत्तिधर्मकत्वात्, साध्यसाधर्म्यवैधर्म्यभावे दृष्टान्तः उदाहरणं, यथा घट इति, वैधम्र्योदाहरणं यदनित्यं न भवति तदुत्पत्तिमदपि न भवति यथाऽऽकाशमिति, तथा न तथेति वा पक्षधर्मोपसंहार उपनयः, तद्यथाअनित्यः शब्दः कृतकत्वादू घटवत्तथा चायं, अनित्यत्वाभावे कृतकत्वमपि न भवत्याकाशवत् न तथाऽयमिति, प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनं, तस्मादनित्य इति, ते चामी पञ्चाप्यवयवा यदि शब्दमात्रं ततः शब्दस्य पौद्गिलकत्वात्पुद्गलानां चाजीवग्रहणेन ग्रहणान्न पृथगुपादानं न्याय्यम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org