________________
श्रुतस्कन्धः - १, अध्ययनं उद्देशक:
पङ्क्तीनामन्त्यपङ्कतौ षट्कानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम्, एवमधोऽधचतुष्कन्त्रिकद्विकैककानां प्रत्येकं विंशत्युत्तरशतं न्यस्यम्, एवमन्त्यपङ्कतौ सप्त शतानि विंशत्युत्तराणि भवन्ति ।
एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यत्तद्विंशत्युत्तरं शतं लब्धं, तस्य च पुनः शेषेण पञ्चकेन भागेऽपहृते लब्धा चतुर्विंशति, तावन्तस्तावन्तश्च पञ्चकचतुष्कन्त्रिकद्विकैककाः प्रत्येकं पञ्चमपङ्कत्तौ न्यस्याः यावद्विंशत्युत्तरं शतमिति, तदधोऽग्रतो न्यस्तमङ्कं मुक्त्वा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताञ्चतुर्विंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पञ्चमपङ्कावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्योऽभिधीयते, एवमनया प्रक्रियया चतुर्विशतेः शेषचतुष्ककेन भागे हते षट् लभ्यन्ते, तावन्तश्चतुर्थपङ्कौ चतुष्ककाः स्थाप्याः, तदधः षट् त्रिकाः, पुनर्द्विका भूय एककाः, पुनः पूर्वन्यायेन पङ्क्तिः पूरणीया, पुनः षट्कस्य शेषत्रिकेण भागे हते द्वौ लभ्येते, तावन्मात्री त्रिकी तृतीयपङ्कतै शेषं पूर्ववत्, शेषपङ्कितद्वये शेषमङ्कद्वयं क्रमोत्क्रमाभ्यां व्यवस्थाप्यमिति ।
$
-
Jain Education International
५५
तथा नाम्नि षड्विधनाभ्रयवतरति, यतस्तत्र षड् भावाः प्ररूप्यन्ते, श्रुतस्य च क्षायोपशमिकभाववर्तित्वात् । प्रमाणमधुना प्रमीयतेऽनेनेति प्रमाणं तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा, तत्रास्याध्ययनस्य क्षायोपशभिकभावव्यवस्थितत्वाभावप्रमाणेऽवतारः, भावप्रमाणं च गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः, तदपि जीवाजीवभेदाद् द्विधा ।
समयाध्ययनस्य च क्षायोपशमिकभावरूपत्वात् तस्य च जीवानन्यत्वाज्जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि ज्ञानदर्शनचारित्रभेदात्त्रिविधं, तत्रास्य बोधरूपत्वात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्द्धा, तत्रास्यागमप्रमाणे समवतारः ।
सोऽपि लौकिकलोकोत्तरभेदाद द्विधा, तदस्य लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वा त्रैविध्यं, (अस्य त्रिपरूत्वात्) त्रिष्वपि समवतारः, यदिवा-आत्मानन्तरपरस्परभेदादागमस्त्रिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमो गणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः,गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्यचेदानीं पृथक्त्वानुयोगे नास्तिसमवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम् “मूढनइयं सुयं कालियं तु न नया समोरयंति इहं ।
अपुहुत्ते समायारो नत्थि पुहत्ते समोयारो ॥ १ ॥ तथा “आसज्जउसोयारं नए नयविसारउ वूया," संख्याप्रमाणं त्वष्टधा-नामस्थापनाद्रव्यक्षेत्रकालपरिमाणपर्यवभावभेदात्, तत्रापि परिमाणसंख्यायां समवतारः, सापि कालिकद्दष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरमाणु संख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसंख्यायां त्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः संख्येया गाथा: संख्येया वेढा : संख्येयान्यनुयोगद्वाराणि ।
साम्प्रतं वक्तव्यतायाः समवतारश्चिन्त्यते सा च स्वपरसमयतदुभयभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारो द्वेधा - अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं निर्युक्तिकृद्वक्ष्यति ।
साम्प्रतं निक्षेपावसरः, स च त्रिधा - ओधनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च,
For Private & Personal Use Only
www.jainelibrary.org