________________
सूत्रकृताङ्ग सूत्रम् 9/-/-//नि. [२८]
नवमे अर्थाधिकारस्त्वयं, तद्यथा-यथाऽवस्थितो धर्म कथ्यते, दशमे तु समाधि प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्ग कथ्यते, द्वादशे त्वयमर्थाधिकारः, तद्यथा'समवसृता' अवतीर्णा व्यवस्थिताश्चतुर्षु मतेषु क्रियाऽक्रियाऽज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषष्टयुत्तरशतत्रयसंख्याः पाषण्डिनः स्वीयं स्वीयमर्थं प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे त्विदमभिहितं, तद्यथासर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते, चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्थाधिकारः, तद्य शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्पदुपेतेन च विनयेन नित्यं गुरुकुलवासो विधेय इति,
पञ्चदशेत्वादानीयाख्येऽध्ययनेऽर्थाधिकारोऽयं, तद्यथा आदीयन्ते गृह्यन्ते उपादीयन्ते इत्यादानीयानि-पदान्यर्था वा ते च प्रागुपन्यस्तपदैरर्थैश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमर्थो व्यावर्ण्यते, तद्यथा पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहित्तः सोऽत्र 'पिण्डितवचनेन' संक्षिप्तामिधानेन प्रतिपाद्यत इति ।
॥ १ ॥
१४
गाहासोलगाणं पिंडत्यो वण्णिओ समासेणं । इत्तो इक्कं पुण अज्झयणं कित्तयिस्सामि ।।
तत्राद्यमध्ययनं समयाख्यं, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेन शास्त्रं न्यासदेशंनिक्षेपावसरमा नीयत इत्युपक्रमः, स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षडूप आवश्यकादिष्वेव प्रपञ्चितः, शास्त्रीयोऽप्यानुपूर्वीनाम प्रमाणवक्तव्यताऽर्थाधिकारसमवताररूपः षोढैव, तत्रानुपूर्वादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतारः, तत्रैतदध्ययनमानुपूर्वादिषु यत्र यत्र समवरति तत्र तत्र समवतारयितव्यं, दशविधायामानुपूर्वा गणनानुपूर्वा समवतरति, सापि त्रिधा पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति । तत्रेदमध्ययनं पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्व्या षोडशम् अनानुपूर्व्या तु चिन्त्यमानस्यामेवैकादिकायामेकोत्तरिकायां षोडशगच्छ्गतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति । अनानुपूर्व्या तु भेदसंख्यापरिज्ञानोपायोऽयं, तद्यथा
तत्र
॥१॥
एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ – प्रस्तारानयनोपायस्त्वयम् - पुव्वाणुपुवि हेट्ठा समयाभेएण कुण जहाजे । उवरिमतुल्लं पुरओ नसेज्ज पुव्वक्कमो सेसे ॥ गणिते ऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमान् ॥ अयं श्लोकः शिष्यहितार्थं विव्रियते तत्र सुखावगमार्थं षट्पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते, तत्रैवं षट्पदानि स्थाप्यानि, एतेषां परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणित मुच्यते तस्मिन् गणितेऽन्त्योऽत्र षट्कः तेन भागे ह्यते विंशत्युत्तरं शतं लभ्यते, तच्च षण्णां
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥१॥