________________
१३
वृ. इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रव्यभावरूपश्ञ्चतुर्विधो निक्षेपः, नामस्थापनेप्रसिद्धे, द्रव्यगाथा द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य 'मितिकृत्वा, नो आगमतस्तु त्रिधा ज्ञशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता च11911 "सत्तट्ठतरू विसमे ण से हया ताण छट्ट नह जलया । गाहाए पच्छद्धे भेओ छट्टोत्ति इक्ककलो ।”
इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति, भावगाथापि द्विविधा-आगमनोआगमभेदात्, तत्राऽऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्वंदमेव गाथाख्यमध्ययनम्, आगमैकदेशत्वादस्य । षोडशकस्यापि नामस्थापनाद्रव्य क्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यषोडशकं ज्ञशरीरभव्यशरीरविनिर्मुक्तिं सचित्तादिनि षोडश द्रव्याणि, क्षेत्र षोडशकं षोडशाकाशप्रदेशाः, कालषोडशकं षोडश समयाः एतत्कालावस्थायि वा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनषोडशकं, क्षायोपशमिकभाववृत्तित्वादिति । श्रुतस्कन्धयोः प्रत्येक चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ साम्प्रतमध्ययनानां प्रत्येकमर्थाधिकारं दिदर्शयिषयाऽऽह नि. [२४] ससमयपरसमयपरुवना य नाऊण बुज्झणा चेव । संबुद्धस्सुवसग्गा धीदोसविज्जणा चेव ॥ उवसग्गभीरुणो धीवसस्स नरएसु होज्ज उववाओ । एव महप्पा वीरो जयमाह तहा जएञ्जाह ॥! परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवं चेव । नाऊण वीरियदुगं पंडियवीरिए पयट्टेइ ॥ धम्मो समाहि मग्गो समोसढा चउसु सव्ववादीसु । सगुणदोसणा गंधमि सदा गुरुनिवासो ॥ आदानिय संकलिया आदानीयंमि आदयचरितं । अप्परगंथे पिंडियवयणेणं होइ अहिगारो ॥
नि. [२५]
नि. [२६]
नि. [२७]
नि. [२८]
वृ. तत्र प्रथम्राध्ययने स्वसमयपरसमयप्ररूपणा, द्वितीये स्वसमयगुणान् परसमयदोषांश्च ज्ञात्वा स्वसमय एव बोधो विधेय इति, तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे त्वयमर्थाधिकारः, तद्यथाउपसर्गासहिष्णोः स्त्रीवशवर्तिनोऽवश्यं नरकेषूपपात इति, षष्ठे पुनः ।
श्रुतस्कन्धः - 9, अध्ययनं उद्देशक:
-
'एवमिति' अनुकूलप्रतिकूलोपसर्गसहनेन स्त्रीदोषवर्जनेन च भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यत्नं विधत्त यूयमिति शिष्याणामुपदेशो दीयते सप्तमे त्विदभिहितं, तद्यथा - निशीला - गृहस्थाः कुशीलास्तु-अन्यतीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता । येन साधुना स परित्यक्तनिशीलकुशील इति, तथा सुशीला उद्युक्तविहारिणः संविग्नाः-संवेगमग्रास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमे त्वेतव्यतिपाद्यते, तद्यथा-ज्ञात्वा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधीयत इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org