SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १२ सूत्रकृताङ्ग सूत्रम् १/-1-1-1नि, [२१] नि. [२१] सुत्तेण सुत्तिया चिय अत्था तह सूइया य जुत्ता-य। तो बहुविहप्पउत्ता एय पसिद्धा अणादीया ।। वृ.अर्थस्य सूचनात्सूत्रं तेन सूत्रेण केचिदर्था साक्षात्सूत्रिता-मुख्यतयोपात्ताः, तथाऽपरे सूचिताअर्थापत्त्याक्षिप्ताः साक्षादनुपादानेऽपिदध्यानयनचोदनयातदाधारानयनचोदनावदिति, एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं षटस्थानपतिता भवन्ति, तथा चोक्तम् - ॥१॥ “अक्खरलंभेण समा ऊणिहाया हुंति मत्तिविसेसेहिं । तेऽविय मईविसेसे सुयनाणऽब्तरे जाण ॥" तत्रये साक्षादुपात्तास्तान् प्रति सर्वेऽपितुल्याः, ये पुनः सूचितास्तदपेक्षयाकश्चिदनन्तभागाधिकमर्थं वेत्त्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः संख्येयासंख्येयानन्तगुणमिति, ते च सर्वेऽपि 'युक्ता' युक्त्युपपन्नाः सूत्रोपात्ता एव वेदितव्याः, तथा चाभिहितम्-"तेऽविय मईविसेसे" इत्यादि, ननु किं सूत्रोपात्तेभ्योऽन्येऽपि केचनार्था सन्ति? येन तदपेक्षया चतुर्दशपूर्वविदां षट्स्थानपतितत्वमुद्देष्यते, बाढं विद्यन्ते, यतोऽभिहितम् । ॥१॥ “पन्नवेणिज्जा भावा अनंतभागो उ अनभिलप्पाणं । पन्नवणिज्जाणं पुण अनंतभागो सुयनिबद्धो॥ यतश्चैवंततस्ते अर्थाआगमे बहुविधं प्रयुक्ताः-सूत्रैरुपात्ताः केचन साक्षात्केचिदर्थापत्त्या समुपलभ्यन्ते, यदिवा क्वचिद्देशग्रहणंक्वचित्सर्वार्थोपादानमित्यादि, यैश्च पदैस्तेअर्थाप्रतिपाद्यन्ते तानिसाक्षात्केचितपत्त्या समुपलभ्यन्ते, यदिवाक्वचिद्देशग्रहणंक्वचित्सर्वार्थोपादानमित्यादि, यैश्च पदैस्तेअर्था प्रतिपाद्यन्ते तानि पदानिप्रकर्षेण सिद्धानि प्रसिद्धानिन साधनीयानि, तथाऽनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण विदेहेषु नित्या भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रति तीर्थकरं क्रियते अन्यथा तु नित्यैव । एतेन च 'उच्चरितप्रध्वंसिनो वर्णा' इत्येतन्निराकृतं वेदितव्यमिति । साम्प्रतं सूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाह प्रथमः श्रुतस्कन्धः । नि. [२२] दो चेव सुयक्खंधा अल्झयणाईच हुंति तेवीसं । तेत्तिसुदेसणकाला आयाराओ दुगुणमंग। वृ. द्वावत्र श्रुतस्कन्धौ, त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, तेचैवं भवन्तिप्रथमाध्ययने चत्वारो द्वितीये त्रयस्तृतीये चत्वारः एवं चतुर्थपञ्चमयोद्वौँ द्वौ तथैकादशस्वेक सरकेष्वेकादशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवो द्देशनकालाः, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गादिगुणमङ्गं, षटत्रिंशत्पदसहपरिमाणमित्यर्थ ।। साम्प्रतं सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमश्रुतस्कन्धस्य नामनिष्पन्न निक्षेपाभिधित्सयाऽऽहनि. [२३] निक्लेवो गाहाए चउव्विहो छविहो य सोलससु। निखेवो य सुयंमि य खंधे यचउब्विहो होइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy