________________
अध्ययनं - १५,
श्रुतस्कन्धः - १,
२७५
आदौ भवति स द्रव्यादिः, द्रव्यस्य दध्यादेर्यः आद्यः परिणतिविशेषः क्षीरस्य विनाशकाल - समकालीनः, एवमन्यस्यापि परमाण्वादेर्द्रव्यस्य यो यः परिणतिविशेषः प्रथममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति । ननु च कथं क्षीरविनाशसमय एव दध्युत्पादः ?, तथाहि ।
उत्पादविनाशी भावाभावरूपी वस्तुधर्मी वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकस्मिन्नेव क्षणे तद्धर्मिणोर्दधिक्षीरयोः सत्ताऽवाप्नोति, एतच्च दृष्टेष्टबाधितमिति, नैष दोषः, यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि तत्परिणामिद्रव्यमेकस्मिन्नेव क्षणे एकेन स्वभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकत्वाद्वस्तुन इति यत्किंचिदेतत् । तदेवं द्रव्यस्य विवक्षितपरिणामेन परिणमतो य आद्यः समयः स द्रव्यादिरिति स्थितं, द्रव्यस्य प्राधान्येन विवक्षितत्वादिति । नि. [१३५] आगमनोआगमओ भावादी तं वुहाउवदिसंती । नोआगमओ भावो पंचविहो होइ नायव्वो ।
वृ. साम्प्रतं भावादिमधिकृत्याह- भावः - अन्तःकरणस्य परिणतिविशेषस्तं 'बुद्धाः' तीर्थकरणगणधरादयो 'व्यपदिशन्ति' प्रतिपादयन्ति तद्यथा-आगमतो नोआगमतश्च तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानत्वात् 'पञ्चविधः' पञ्चप्रकारो भवति, तद्यथा- प्राणाति-पातविरमणादीनां पञ्चानामपि महाव्रतानामाद्यः प्रतिपत्तिसमय इति ।
नि. [१३६ ] आगमओ पुण आदी गणिपिडगं होइ बारसंगं तु । गंथसिलोगो पदपाद अक्खराई च तत्थादी ॥
वृ. तथा 'आगमओ' इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा-यदेतद्गणिनःआचार्यस्य पिटकं सर्वस्वमाधारो वा तद्द्वादशाङ्गं भवति, तुशब्दादन्यदप्युपाङ्गादिकं द्रष्टव्यं, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकत्तत्राप्याद्यं पदं तस्यापि प्रथममक्षरम्, एवंविधो बहुप्रकारो भावादिर्द्रष्टव्य इति । तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्यापि ककारो, द्वादशानां त्वङ्गानामाचाराङ्गमादिस्तस्यापि ज्ञपरिज्ञाध्ययनमस्यापि च जीवोद्देशकस्तस्यापि 'सुयं' ति पदं तस्यापि सुकार इति, अस्य च प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आधुद्देशक श्लोकपादपदवर्णादिर्द्रष्टव्य इति ।
गतो नामनिष्पन्नो निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम्मू. (६०७) जमतीतं पडुपनं, आगमिस्सं च नायओ ।
सव्वं मन्नति तं ताई, दंसणावरणंतए ।
वृ. अस्य चानन्तरसूत्रेण संबन्धो वक्तव्यः, स चायं, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽ हति तथोक्यं समाधिं भाषितुं यश्च यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भाषितुमर्हति नान्य इति । परम्परसूत्रसम्बन्धस्तु य एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतद्बुध्येतेत्यादिकः संबन्धोऽपरसूत्रैरपि स्वबुद्धा लगनीय इति ।
तदेवं प्रतिपादितसम्बन्धस्यास्य सूत्रस्य व्याख्या प्रस्तूयते यत्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतम्-एष्यत्कालभावि तस्यासौ सर्वस्यापि यथावस्थितस्वरूपनिरूपणतो 'नायकः' प्रणेता, यथावस्थितवस्तुस्वरूपप्रणेतृत्वं च परिज्ञाने सति भवत्यतस्तदुपदिश्यते - 'सर्वम्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org