SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २७४ सूत्रकृताङ्ग सूत्रम् १/१५/-/६०६/नि. [१३२] शेषकर्मक्षयार्थं यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिकृत्वा आदानीयमिति नाम संवृत्तं । पर्यायद्वारेण च प्रतिपादितं सुग्रहं भवतीत्यतआदानशब्दस्य तत्पर्यायस्य च ग्रहणशब्दस्य निक्षेप कर्तुकामो नियुक्तिकृदाह-- नि. [१३२] आदाणे गहणंमि य निक्लेवो होति दोण्हवि चउक्को । एगट्ठ नाणठं च होज पगयं तु आदाणे॥ नि. [१३३] जं पढमस्संतिमए बितियस्स उतं हवेज्ज आदिनि । एतेणादाणिज्जं एसो अन्नोऽवि पन्जाओ। वृ.अथवा 'जमतीयं तिअस्याध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानं, तब ग्रहणमित्युच्यते, तत आदानग्रहणयोर्निक्षेपार्थं नियुक्तिकृदाह-'आदाणे' इत्यादि, आदीयते कार्यार्थिनातदित्यादानं, कर्मणिल्युट प्रत्ययः, करणेवा, आदीयतेगृह्यते स्वीक्रियतेविवक्षितमनेनेतिकृत्वा । आदानंच पर्यायतो ग्रहणमित्युच्यते, ततआदानग्रहणयोनिक्षेपो भवति द्वौ चतुष्क, तद्यथानि. [१३४] नामादी ठवणादी दव्वादी चेव होति भावादी। दव्वादी पुण दव्वस्स जो सभावो सए ठाणे॥ वृ. नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तं, यस्माल्लौकिकैः परित्यक्तान्यकर्तव्यैर्महता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिकृत्वा । भावादानं तु द्विधा-प्रशस्तमप्रशस्तं च, तत्राप्रशस्तं क्रोधाधुदयो मिथ्यात्वाविरत्यादिकंवा, प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसायकण्डकोपादानं सम्यगज्ञानादिकं वेत्येतदर्थ-प्रतिपादनपरमेतदेववाऽध्ययनंद्रष्टव्यमिति,एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः, भावार्थोऽप्यादानपदस्येव द्रष्टव्यः, तत्पर्यायत्वादस्येति। एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुसूत्रार्थनयाभिप्रायेणादानपदेन सहालोच्यमानं शक्नेन्द्रादिवदेकार्थम्-अभिन्नार्थं भवेत् , शब्दसमभिरूढत्थंभूतशब्दनयाभिप्रायेण च नानार्थं भवेत् । इह तु 'प्रकृतं प्रस्ताव 'आदाने' आदानविषयेयत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य नाम कृतमिति। आदानीयाभिधानस्यान्यथा वा प्रवृत्तिनिमित्तमाह-यत् पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते-पर्यन्ते तदेव पदं शब्दतोऽर्थ उभयतश्चद्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदौ भवति एतेन प्रकारेण:आद्यन्तपदसशत्वेनादानीयंभवति, एतेन प्रकारेण-आद्यन्तपदसशत्वेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्तेः 'पर्यायः' अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादान दिति । केचित्तु पुनरस्याध्ययनस्यान्तादिपदयोः संकलनात्संकलिकेति नाम कुर्वते, तस्या अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादी भावसंकलना तूत्तरोत्तरविशिष्टाध्यवसायसंकलनम्, इतमेव वाऽध्ययनम्, आधन्तपदयोः संकलनादिति । येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं तदादानपदम्, अत आदेनिक्षेपं कर्तुकाम आह-आदेनामादिकश्चतुर्धा निक्षेपः, नामस्थापने सुगमत्वादनाध्त्य द्रव्यादि दर्शयति-द्रव्यादि पुनः 'द्रव्यस्य' परमाण्वादेर्य 'स्वभावः' परिणतिविशेषः 'स्वके स्थाने स्वकीये पर्याये प्रथमम् www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy