________________
श्रुतस्कन्धः - १, अध्ययनं-१४,
२७३ हस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते, तथा चोक्तम् - ॥१॥ "अप्रशान्तमतौ शास्त्रसद्मावप्रतिपादनम्।
दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे ।। इत्यादि, न च सूत्रमन्यत् स्वमतिविकल्पनतः स्वपरत्रायी कुर्वीतान्यथा वा सूत्रं तदर्थवा संसारावायी-त्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथासूत्रंन कर्तव्यमित्याह-परहितैकरतः शास्ता तस्मिन्शास्तरिया व्यवस्थिता भक्ति-बहुमानस्तयातद्भक्त्या अनुविचिन्त्य-ममानेनोक्तेन नकदाचिदागमबाधा स्यादित्येवंपर्यालोच्य वादंवदेत्, तथा यच्छ्रुतमाचार्यदिभ्यः सकाशात्तत्तथैव सम्यक्त्वाराधनामनुवर्तमानोऽन्येभ्यऋणमोक्षप्रतिपद्यमानः प्रतिपादयेत्' प्ररूपयेन्न सुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति।। मू. (६०६) से सुद्धसुत्ते उवहाणवंच, धम्मंचजे विंदति तत्थ तत्थ।
आदेज्जवक्के कुसले वियत्ते, स अरिहइ भासिउं तं समाहिं ।। -त्तिबेमि।
वृ. अध्ययनोपसंहारार्थमाह-'स' सम्यगदर्शनस्यालूषको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकः शुद्धम् अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनतश्च सूत्र-प्रवचनं यस्यासौशुद्धसूत्रः, तथोपधानं तपश्चरणं यद्यस्य सूत्रस्याभिहितमागमेतद्विद्यतेयस्यासावुपधानवान्, तथा 'धर्म' श्रुतचारित्राख्यं यः सम्यक् वेत्ति विन्दते वा-सम्यग् लभते।
___ 'तत्र तत्रे'तिय आज्ञाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकस्तु सम्यग्धेतुना यदिवा स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः पर(समय)सिद्धश्च परस्मिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्यः, एतद्गुणसंपन्नश्च 'आदेयवाक्यो' ग्राह्यवाक्यो भवति, तथा 'कुशलो' निपुणः आगमप्रतिपादने सदनुष्ठाने च 'व्यक्तः' परिस्फुटो नासमीक्ष्यकारी, यश्चैतद्गुणसमन्वितः सोऽर्हति-योग्यो भवति 'तं' सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'व्यक्तः परिस्फुटो नासमीक्ष्यकारी, यश्चैतद्गुणसमन्वितः सोऽर्हति-योग्यो भवति 'त' सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'भाषितुं प्रतिपादयितुं, नापरः कश्चिदिति । इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत्, गतोऽनुगमो, नयाः प्राग्वद्व्याख्येयाः।
अध्ययनं-१४ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता प्रथम श्रुतस्कन्धस्य चतुर्दशमध्ययनटीका परिसमाप्ता।
(अध्ययनं-१५ आदानीय/जमतीयं) वृ.अथ चतुर्दशाध्ययनानन्तरंपञ्चदशमारभ्यते,अस्यचायमभिसंबन्धः-इहानन्तराध्ययने सबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो विधेय इत्यमिहितं, ग्रन्थपरित्यागाचायतचारित्रो भवति साधुः ततो याद्दगसौ यथा च संपूर्णामायतचारित्रतां प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोयक्रम
अन्तर्गतोऽर्थाधिकारोऽयं, तद्यथा. आयतचारित्रेण साधुनाभाव्यं नामनिष्पनेतुनिक्षेपेआदानीयमिति नाम, मोक्षार्थिनाऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org