________________
२७२
॥ १ ॥
सूत्रकृताङ्ग सूत्रम् १/१४/-/६०२
"सो अत्थो वत्तव्वो जो भण्णइ अक्खरेहिं थोवेहिं । जो पुण थोवो बहुअक्खरेहिं सो होइ निस्सारं ।।
तथा किंचित्सूत्रमल्पाक्षरमल्पार्थं वा इत्यादि चतुर्भङ्गिका, तत्र यवल्पाक्षरं महार्थं तदिह प्रशस्यत इति ॥
मू. (६०३) समालवेज्जा पडिपुत्रभासी, निसामिया समिया अट्ठदंसी ।
आणाइ सुद्धं वयणं भिउंजे, अभिसंधए पावविवेग भिक्खू ॥
वृ. अपिच-यत्पुनरतिविषमत्वादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग् -शोभनेन प्रकारेण समन्तात्पर्यायशब्दोच्चारणतो भावार्थकथनतश्चालपेद् भाषेत समालपेत्, नाल्पैरेवाक्षरैरुकृत्वा कृतार्थो भवेद्, अपितु ज्ञेयगहनार्थभाषणे सद्धेतुयुक्तादिभिः श्रोतारमपेक्ष्य प्रतिपृणभाषी स्याद्अस्खलिता- मिलिताहीनाक्षरार्थवादी भवेदिति । तथाऽऽचायदिः सकाशाद्यथावदर्थं श्रुत्वा निशम्य अवगम्य च सम्यग यथावस्थितमर्थं गुरुसकाशादवधारितमर्थं प्रतिपाद्यं द्रष्टुं शीलमस्य स भवति सम्यगर्थदर्शी स एवंभूतः संस्तीर्थ कराज्ञया सर्वज्ञप्रणीतागमानुसारेण 'शुद्धम्' अवदातं पूर्वापराविरुद्धं निरवद्यं वचनमभियुञ्जीतोत्सर्गविषये सति उत्सर्गमपवादविषये चापवादं तथा स्वपरसमययोर्यथास्वं वचनमभिवदेत् । एवं चाभियुञ्जन् भिक्षुपापविवेकं लाभसत्कारादिनिरपेक्षतया काङ्क्षमाणो निर्दोषं वचनमभिसन्धयेदिति । पुनरपि भाषाविधिमधिकृत्याह
मू. (६०४) अहाबुइयाइं सुसिक्खएज्जा, जइज्जया नातिवेलं वदेज्जा । से दिट्टिमं दिट्ठिन लूसएज्जा, से जाणई भासिउं तं समाहिं ॥
वृ. यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं 'सुष्ठु शिक्षेत' ग्रहणशिक्षया सर्वज्ञोक्तमागमं सम्यग् गृह्णीयाद् आसेवनाशिक्षया त्वनवरतमुद्युक्त विहारितयाऽऽ सेवेत, अन्येषां च तथैव प्रतिपादयेद्, अतिप्रसक्तलक्षणनिवृत्तये त्वपदिश्यते, सदा ग्रहणासेवनाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि यो यस्य कर्तव्यस्य कालोऽध्ययनकालो वा तां वेलामतिलक्ष्य नातिवेलं वदेद् अध्ययनकर्तव्यमर्यादां नातिलङ्घयेत्सदनुष्ठानं प्रति व्रजेद्वा, यथावसरं परस्पराबाधया सर्वा क्रियाः कुर्यादित्यर्थः
स एवंगुण जातीयो यथाकालवादी यथाकालचारी च 'सम्यगष्टिमान्' यथावस्थितान् पदार्थान् श्रद्दधानो देशनां व्याख्यानं वा कुर्वन् 'द्दष्टिं' सम्यगदर्शनं 'न लूषयेत्' न दूषयेत् ।
इदमुक्तं भवति-पुरुषविशेषं ज्ञात्वा तथा तथा कथनीयमपसिद्धान्तदेशना परिहारेण यथा यथा श्रोतुः सम्यक्त्वं स्थिरिभवति, न पुनः शङ्कोत्पादनतो दूष्यते, यश्चैवंविधः स 'जानाति ' अवबुध्यते 'भाषितुं' प्ररूपयितुं 'समाधिं' सम्यगदर्शनज्ञानचारित्राख्यं सम्यचित्त व्यवस्थानाख्यं या तं सर्वज्ञोक्तं समाधिं सम्यगवगच्छतीति ॥
भू. (६०५)
अलूसए नो पच्छन्नभासी, नो सुत्तमत्थं च करेज्ज ताई ।
सत्थारभत्ती अणुवीइ वायं, सुयं च सम्मं पडिवाययंति ।
वृ. किंचान्यत्- 'अलूस' इत्यादि, सर्वज्ञोक्तमागमं कथयन् 'नो लूषयेत्' नान्यथाऽपसिद्धान्तव्याख्यानेन दूषयेत्, तथा 'न प्रच्छन्नभाषी भवेत्' सिद्धान्तार्थमविरुद्धमवदातं सार्वजनीनं तच्छत्रभाषणेन न गोपयेत् यदिवा प्रच्छन्नं वाऽर्थमपरिणताय न भाषेत, तद्धि सिद्धान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org