________________
२७६
सूत्रकृताङ्ग सूत्रम् १/१५/-1६०७ अतीतानागतवर्तमानकालत्रयभावतो द्रव्यादिचतुष्कस्वरूपतो द्रव्यपर्यायनिरूपणतश्च मनुतेअसीजानातिसम्यकपरिच्छिनत्तितत्सर्वमवबुध्यते, जानानश्च विशिष्टोपदेशदानेन संसारोत्तारणतः सर्वप्राणिनां त्राय्यसौ-त्राणकरणशीलः, यदिवा
'अयवयपयमयचयतयणयगता' वित्यस्य धातोर्धप्रत्ययः, तयनंतायःसविद्यतेयस्यासी तायी, 'सर्वे गत्यर्था ज्ञानार्थी' इतिकृत्वा सामान्यस्य परिच्छेदको, मनुते इत्यनेन विशेषस्य, तदनेन सर्वज्ञःसर्वदर्शीचेत्युक्तंभवति, नच कारणमन्तज्ञानार्थीइतिकृत्वा सामान्यस्यपरिच्छेदको, मनुते इत्यनेन विशेषस्य, तदनेन सर्वज्ञः सर्वदर्शी चेत्युक्तं भवति, न च कारणमन्तरेण कार्य भवतीत्यतइदमपदिश्ते-दर्शनावरणीयस्य कर्मणोऽन्तकः, मध्यग्रहणेतु घातिचतुष्टयस्यान्तकृद् द्रष्टव्य इति। मू. (६०८) अंतए वितिगिच्छाए, से जाणति अनेलिसं।
अनेलिसस्स अक्खाया, न से होइ तहिं तहिं ।। वृ. यश्च धातिचतुष्टयान्तकृत्स ईद्दग्भवतीत्याह-विचिकित्सा-चित्तविप्लुति संशयज्ञानं तस्यासौ तदावरणक्षयादन्तकृत् संशयविपर्ययमिथ्याज्ञानानामविपरीतार्थ परिच्छेदादन्ते वर्तते, इदमुक्तं भवति-तत्र दर्शनावरणक्षयप्रतिपादानात् ज्ञानाद्, भिन्नं दर्शनमित्युक्तं भवति, ततश्च येषामेकमेव सर्वज्ञस्य ज्ञानं वस्तुगतयोः सामान्यविशेषयोरचिन्त्यशकत्युपेतत्वात्परिच्छेदकमित्येषोऽभ्युपगमः सोऽनेन पृथगावरणक्षयप्रतिपादनेन निरस्तोभवतीति, यश्चघातिकर्मान्तकृदतिक्रान्तसंशयादिज्ञानः सः ‘अनीशम्' अनन्यसशं जानीते न तत्तुल्य वस्तुगतसामान्यविशेषांशपरिच्छेदक उभयस्त्रपेणैव विज्ञान विद्यत इत ।
इदमुक्तं भवति-न तज्ज्ञानमितरजनज्ञानतुल्यम्, अतो यदुक्तं मीमांसकैः-सर्वज्ञस्य सर्वपदार्थपपरिच्छेदकत्वेऽभ्युपगम्यमाने सर्वदा स्पर्शरूपरसगन्धवर्णशब्दपरिच्छेदादनभिमतद्रव्यरसास्वादनमपि प्राप्नोति, तदनेन व्युदस्तं द्रष्टव्यं, यदप्युच्यते-सामान्येन सर्वज्ञसद्भावेऽपि शेषहेतोरभावादर्हत्येव संप्रत्ययो नोपपद्यते, तथा चोक्तम् - ॥१॥ "अर्हन् यदि सर्वज्ञो, बुद्धो नेत्यत्र का प्रभा? ।
____ अथोभावि सर्वज्ञौ, मतभेदस्तयोः कथम्? । इत्यादि, एतत्परिहारार्थमाह-'अनीशस्य अनन्यसद्दशस्य यः परिच्छेदक आख्याताच नासौ 'तत्रतत्र' दर्शने बौद्धादिके भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति, तथाहि-शाक्यमुनि सर्वं क्षणिकमिच्छन् पर्यायानेवेच्छतिन द्रव्यं, द्रव्यमन्तरेण च निर्बीजत्वात् पर्यायाणामप्यभावः प्राप्नोत्यतः पर्यायानिच्छाताऽवश्यमकामेनापितदाधारभूतं परिणामिद्रव्यमेष्टव्यं, तदनभ्युपगमात्र नासौसर्वज्ञइति।तथाअप्रच्युतानुत्पन्नस्थिरैकस्वभावस्यद्रव्यस्यैवैकस्याभ्युपगमादध्यक्षाध्यवसीयमानानामर्थक्रियासमर्थानां पर्यायाणामनभ्युपगमान्निष्पर्यायस्य द्रव्यस्याप्यभावात्कपिलोऽपिन सर्वज्ञ इति, तता क्षीरोदकवदभिन्नयोर्द्रव्यपर्याययोर्भेदेनाभ्युपगमादुलूकस्यापि न सर्वज्ञत्वम् । असर्वज्ञत्वाच्च तीर्थान्तरीयाणांमध्ये न कश्चिदप्यनीशस्य-अन्यसशस्यार्थस्य द्रव्यपर्यायोभयरूपस्याख्याता भवतीत्यर्हन्नेवातीतानागतवर्तमानत्रिकालवर्तिनोऽर्थस्य स्वाख्यातेतिन तत्र तत्रेति स्थितम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org