________________
४१६
सूत्रकृताङ्ग सूत्रम् २/५/-/७३२
मू. (७३२)
नत्थि कल्लाण पावे वा, नेवं सन्नं निवेसए । अत्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥
वृ. तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्वं प्रदर्श्याधुना च सामान्येन कल्याणपापवतोः सद्भावं प्रतिषेधनिषेधद्वारेणाह - 'नित्थि कल्लाण पावे वा' इत्यादि, यथेष्टार्थफलसंप्राप्ति कल्याणं तत्र विद्यते, सर्वाशुचितया निरात्मकत्वाञ्च पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तम्
॥१॥
"विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेद्, अपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत्, तथाहि नैकान्तेन कल्याणाभावो यो बौद्धैरभिहितः, सर्वपदार्थानाशुचित्वासंभवात्, सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानः स्वद्रव्यक्षेत्रकालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात् परद्रव्यादिभिस्तु न विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः, तदुक्तम्- "स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्व" मिति तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपी दुर्भगः सुभगोऽर्थवान् दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् ।
यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यं, न पुनः कर्मापादित वैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेवं कथञ्चित्कल्याणमस्ति तद्विपर्यस्तं तु पापकमिति । न चैकान्तेन कल्याणं कल्याणमेव, यतः केवलिनां प्रक्षीणघनघातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि पञ्चेन्द्रियत्वविशिष्टज्ञानादिसद्भावानैकान्तेन तेऽपि पापवन्त इति तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् । तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूषयितुमाहमू. (७३३) कल्लाणे पावए वावि, ववहारो न विजइ ।
जं वेरं तं न जाणंति, समणा बाल पंडिया |
वृ. कल्यं सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्वर्थीयाच्प्रत्ययान्तोऽर्शआदिभ्योऽजित्यनेन, कल्याणवानितियावत् । एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः । तदेवं सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात्, तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति । एतच्च व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयं तद्यथा सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नास्ति लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारो न विद्यत इति सर्वत्र सम्बन्धनीयं ।
तथा वैरं वज्रं तद्वत्कर्म वैरं विरोधो वा वैरं तद्येन परोपघातादिनैकान्तपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणाः' तीर्थिका बाला इव रागद्वेषकलिताः 'पण्डिताः' पण्डिताभिमानिनः शुष्कतर्कदपध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्यानेकान्तपक्षस्य वाऽनाश्रय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org