________________
श्रुतस्कन्धः - २, अध्ययनं ५,
·
४१७
णादिति । यदिवा यद्वैरं तत्ते श्रणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण सम्बन्धः किमिति न निसृजेत् ?, यतस्तेऽपि किञ्चिजानन्त्येव । अपिच तेषां तन्निमित्तकोपोत्पत्तेः, यचैवंभूतं वचस्तन्न वाच्यं यत उक्तम्
119 11
"अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सव्वसो तं न भासेज्जा, भासं अहियगामिणिं ॥ ( इत्यादि) असेसं अक्खयं वावि, सब्वदुक्खेति वा पुणो । वज्झा पाणा न वज्झति, इति वायं न नीसरे ॥
मू. (७३४)
वृ. अपरमपि वाक्संयममधिकृत्याह - ' असेस' मित्यादि, अशेषं कृत्स्नं तत्सांख्याभिप्रायेण अक्षतं-नित्यमित्येवं न ब्रूयात्, प्रत्यर्थं प्रतिसमयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात्, तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत्, सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात्, तथा च सति 'नित्यं सत्त्वमसत्वं वाऽहेतोरन्यानपेक्षणा' दिति । तथा सर्वं जगद्दुखात्मकमित्येवमपि न ब्रूयात्, सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात्, तथा चोक्तम् 'तणसंधार निसन्नोऽवि मुनिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ॥ इत्यादि,
119 !!
तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं स्वानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षो न निसृजेत्, तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् ध्ष्ट्वा माध्यस्थ्यमवलम्बयेत्, तथा चोक्तम्- "मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि”ति, एवमन्योऽपि वाक्संयमो द्रष्टव्यः, तद्यथा अमी गवादयो वाह्या न वाह्या वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधुनेति । यू. (७३५) दीसंति समियायारा, भिक्खुणो साहुजीविणो ।
एए मिच्छोवजीवंति, इति दिट्ठि न धारए ।
वृ. अयमपरो वाक्यंसयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितः प्रदर्श्यते- 'दीसंती'त्यादि, 'श्यन्ते' समुपलभ्यन्ते स्वशास्त्रोक्तेन विधिना निभृतः संयत आत्मा येषां ते निभृतात्मानः, क्वचित्पाठः 'समयाचार' त्ति सम्यक् - स्वशास्त्रविहितानुष्ठानादविपरीत आचारः-अनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा- इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते? - भिक्षणशीला भिक्षवो भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः ।
सधाहि ते न कस्यचिदुपरोधविधानेन जीवन्ति, तथा क्षान्ता दान्ता जितक्रोधाः सत्यसंधा ध्ढव्रता युगान्तरमात्रध्ष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवंभूतानवधार्यापि 'सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत्-नैवंभूतमध्यवसायं कुर्यान्नाप्येवंभूतां वाचं निसृजेद् यथैते मिथ्योपचारप्रवृत्ता मायाविन इति छद्मस्थेन ह्यर्वाग्दर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, तेच स्वयूथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्य साधुना, यत उक्तम्
227
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org