________________
श्रुतस्कन्धः - २, अध्ययनं-५,
४१५
तस्यानवद्यत्वात्, तथा चोक्तम्-“उच्चालियंमिपाए" इत्यादि प्रतीतंतदेवं कर्मबन्धाभावासिद्धेः सद्भावोऽव्याहतः, सामग्रयभावादसिद्धिसदभावोऽपीति । मू. (७३०) नत्थि सिद्धी नियं ठाणं, नेवं सन्नं निवेसए।
अस्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए।। वृ.साम्प्रतं सिद्धानां स्थाननिरूपणायाह-'नस्थिसिद्धी' त्यादि, सिद्धेः-अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईषयाग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरियोजनक्रोशषड्भागः, तप्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञांनो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति।अपिच-अपगताशेषकल्मषाणांसिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं, तञ्चतुर्दशरज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं, न च शक्यते वक्तुमाकाशवत्सवव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपरद्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात्, लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः-तथाहि
सिद्धावस्थायां तेषां व्यापित्वमभ्युपगतमुत प्रागपि ?, न तावत्सिद्धावस्थायां, तद्वयापित्वभवनेनमित्ताभावात्, नापिप्रागवस्थायां, तद्भावेसर्वसंसारिणांप्रतिनियतसुखदुःखानुभवो न स्यात्, न च शरीराबहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्वव्यापित्वं विचार्यमाणं न कथञ्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च कर्मविमुक्तस्योवंगति'रितिकृत्वा भवति, तथा चोक्तम् - ॥१॥ "लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के ।
गई पुव्वपओगेणं एवं सिद्धाणवि गईओ।। इत्यादि । तदेवमस्ति सिद्धिस्तस्याश्च निजंस्थानमित्येवंसंज्ञांनिवेशयेदिति।साम्प्रतंसिद्धेः साधकानां साधूनां तत्प्रतिपक्षभूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाहमू. (७३१) नथि साहू असाहू वा, नेवं सन्नं निवेसए।
अस्थि साहू असाहू वा, एवं सन्नं निवेसए । वृ. नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रत्नत्रयानुष्ठानस्याभावात्, तदभावाच्चतप्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतद्वयवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञां नो निवेशयेत्, अपितु अस्ति साधुः, सिद्धेः प्राक्साधितत्वात, सिद्धिसत्ताचनसाधुमन्तरेण,अतःसाधुसिद्धि, तत्प्रतिपक्षभूतस्यचासाधोरिति। यश्च संपूर्णरलत्रयानुष्ठानाभावः प्रागाशङ्कितः स सिद्धान्ताभिप्रायमबुद्धैव, तथाहि --
सम्यग्दष्टेरुपयुक्तस्यारक्तद्विष्टस्य सत्संयमवतः श्रुतानुसारेणाऽऽहारादिकं शुद्धबुद्धया गृह्णतः क्वचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततयासंपूर्णमेव रत्नत्रयानुष्ठानमिति, यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदं चागम्यं प्रासुकमेषणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसंभवेनसमभावरूपस्य सामायिकस्याभावः कैश्चिचोद्यतेतत्तेषां चोदनमज्ञानविजृम्भणात, तथाहि-नतेषांसामायिकवतांसाधूनांरागद्वेषतयाभक्ष्याभक्ष्यादिविवेकः, अपितुप्रधानमोक्षाङ्गस्य सच्चारित्रस्यसाधनार्थम्, अपिच-उपकारापकारयोः समभावतयासामायिकंनपुनर्भक्ष्याभक्ष्ययोः समप्रवृत्त्येति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org