________________
२२२
सूत्रकृताङ्ग सूत्रम् १/११/-/५२४
वृ. दार्शन्तिकं दर्शयितुमाह 'एव'मिति तथा ढकादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति तदध्यायिनश्चकलुषाधमा भवन्ति एवमेव मिथ्याष्टियःश्रमणा 'एके शाक्यादयोऽनार्यकर्मकारित्वात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां-शब्दादीनां प्राप्तिं ध्यायन्ति तयायिनश्च कङ्मा इव कलुषाधमा भवन्तीति ।। किञ्चमू. (५२५) सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती।
उम्मग्गगता दुखं, धायमेसंति तंतहा ।। पृ. 'शुद्धम् अवदातंनिर्दोष मार्ग' सम्यग्दर्शनादिकंमोक्षमार्गकुमार्गप्ररूपणाया विराध्य' 'दूषयित्वां 'इह' अस्मिन संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा एके' शाक्यादयः स्वदर्शनानुरागेण महामोहाकलितान्तरात्मानो दुष्टा पापोपादानता मतिर्येषां ते दुष्टमतयः सन्त उन्मार्गेणसंसारावतरणरूपेण गताः-प्रवृत्ता उन्मार्गगता।
दुःखयतीति दुःखम्-अष्टप्रकारं कर्मासातोदयरूपं वा तदुःखं घातं चान्तशस्ते तथासन्मार्गविराधना उन्मार्गगमनंच 'एषन्ते' अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः । मू. (५२६) जहा आसाविणिं नावं, जाइअंधो दुरुहिया।
इच्छई पारमागंतुं, अंतराय विसीयति ।। वृ.शाक्यादीनांचापायंदिदर्शयिषुस्तावद्दृष्टान्नमाह-यथा जात्यन्ध आविणी' शतच्छिद्रां नावमारुह्य पारमागन्तुमिच्छति, न चासी सच्छिद्रतया पारगामी भवत, किं तर्हि ?, अन्तराल एव-जलमध्य एव विषीदति-निमज्जतीत्यर्थः।। मू. (५२७) एवं तु समणा एगे, मिछिद्दिट्टी अनारिया।
सोयं कासिणमावन्ना, आगंतारो महब्भयं। वृ. दाटन्तिकमाह-एवमेव श्रमणा 'एके शाक्यादयो मिथ्यादृष्टयोऽनार्या भावनोतःकर्माश्रवरूपं कृत्स्नं संपूर्णमापन्नाः सन्तस्ते 'महाभयं पौनःपुन्येनसंसारपर्यटनया नारकादिस्वभावं दुःखम् ‘आगन्तारः' आगमनशीला भवन्ति, न तेषां संसारोदधेरामाविणी नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः। मू. (५२८) इमंच धम्ममादाय, कासवेण पवेदितं ।
तरे सोयं महाघोरं, अत्तत्ताए परिव्वए। वृ.यतः शाक्यादयः श्रमणाः मिथ्याध्टयोऽनार्याकृत्स्नंस्रोतः समापन्नाः महाभयमागन्तारो भवन्तितत इदमुपदिश्यते-'इममितिप्रत्यक्षासन्नवाचित्वादिदमोऽनन्तरंवक्ष्यमाणलक्षणंसर्वलोकप्रकटंच दुर्गतिनिषेधेन शोभनगतिधारणात् 'धर्मं श्रुतचारित्राख्यं, चशब्दः पुनःशब्दार्थे, सच पूर्वस्माद्वयतिरेकं दर्शयति।
यस्माच्छौद्धोदनिप्रणीतधर्मस्यादातारोमहामयं गन्तारोभवन्ति, इमं पुनर्धर्मम् आदाय' गृहीत्वा 'काश्यपेन' श्रीवर्धमानस्वामिना 'प्रवेदितं' प्रणीतं 'तरेत्' लङ्घयेद्भावस्रोतः संसारपर्यटनस्वभावं,तदेव विशिनष्टि-'महाघोरं' दुरुत्तरत्वान्महाभयानकं, तथाहि तदन्तर्वर्तिनो जन्तवोगर्भादर्भजन्मतोजन्ममरणान्मरणं दुःखामुखमित्येवमरधट्टीघटीन्यायेनानुभवन्तोऽनन्तमपि कालमासते । तदेवं काश्यपप्रणीतधर्मादानेन सता आत्मनस्त्राणं-नरकादिरक्षा तस्मैआत्मत्राणाय परिः-समन्तात्परिव्रजेत्संयमानुष्ठायी भवेदित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org