________________
श्रुतस्कन्धः-१, अध्ययनं-११,
२२१ वृतमेवंभूतंशुद्धं परिपूर्णमनीशंधर्ममजानाना अप्रबुद्धा' अविवेकिनः पण्डितमानिनो' वयमेव प्रतिबुद्धा धर्मतत्त्वमित्येवं मन्यमाना भावसमाधेः-सम्यग्दर्शनाख्यादन्ते-पर्यन्तेऽतिदूरे वर्तन्त इति, ते च सर्वेऽपि परतीर्थिका द्रष्टव्या इति। मू. (५२२) ते य बीओदगं चेव, तमुद्दिस्सा य जं कडं।
भोच्चा झाणं झियायंति, अखेयन्नाऽसमाहिया॥ वृ.किमिति तेतीर्थिका भावमार्गरूपात्समाधेदुरे वर्तन्त इत्याशङ्कयाह-'तेच' शाक्यादयो जीवाजीवानभिज्ञतया बीजानि' शालिगोधूमादीनि, तथा शीतोदकम्' अप्रासुकोदकं, तांश्चोद्दिश्य तद्भक्तैर्यदाहारादिकं कृतं निष्पादितं तत्सर्वमविवेकितया तेशाक्यदयो ‘भुक्त्वा' अभ्यवहत्य पुनः सातद्धिरसगौरवासक्तमनसः संघभक्तादिक्रियया तदवाप्तिकृते आर्त ध्यानं ध्यायन्ति, न दैहिकसुखैषिणां दासीदासधनधान्यादिपरिग्रहवतां धर्मध्यानं भवतीति, तथा चोक्तम् - ॥१॥ "ग्रामक्षेत्रगृहादीनां, गवां प्रेष्यजनस्य च ।
यस्मिन्परिग्रहो ६ष्टो, ध्यानं तत्र कुतः शुभम् ? ॥ इति, ॥१॥ (तथा) “मोहस्यायतनं धृतेरपचयः शान्तेः प्रतीपो विधि
व्यक्षिकषेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः । दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः,
प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ।। तदेवं पचनपाचनादिक्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभवः इति । अपिच-ते तीथिका धर्माधर्मविवेके कर्तव्ये 'अखेदज्ञा' अनिपुणाः, तथाहि-शाक्या मनोज्ञाहारवसतिशय्यासनादिकंरागकारणमपि शुभध्याननिमित्तत्वेनाध्यवस्यन्ति,तथाचोक्तम्'मणुण्णं भोयणंभुचे'त्यादि, तथा मांसंकल्किकमित्युपदिश्य संज्ञान्तरसमाश्रयणानिर्दोषंमन्यन्ते, बुद्धसङ्घादिनिमितंचारम्भं निर्दोषमिति, तदुक्तम्॥१॥ "मंसनिवत्तिं काउं सेवइदंतिक्कगंति धणिभेया।
इयचइऊणारंभ परववएसा कुणइ बालो।। नचैतावतातन्निर्दोषता, न हिलूतादिकंशीतलिकाधभिधानान्तरमात्रेणान्यथात्वं भजते, विषं वा मधुरकाभिधानेनेति, एवमन्येषामपि कापिलादीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशोत्पादावभिदधतामनैपुण्यमाविष्करणीयं तदेवंतेवराकाः शाक्यादयोमनोज्ञोद्दिष्टभोजिनः सपरिग्रहतयाऽऽर्तध्यायिनोऽसमाहिता मोक्षमार्गाख्याद्भावसमाधेरसंवृततयादूरेणवर्तन्त इत्यर्थः मू. (५२३) जहा ढंका य कंका य, कुलला मग्गुका सिही।
मच्छेसणं झियायंति, झाणं ते कलुसाधमं॥ वृ.यथा चैतेरससातागौरवतयाऽऽर्तध्यायिनो भवन्ति तथा दृष्टान्तद्वारेण दर्शयितुमाहयथेत्युदाहरणोपन्यासार्थ 'यथा' येनप्रकारेण 'ढकादयः' पक्षिविशेषाजलाशयाश्रया आमिषजीविनो मत्स्यप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानमातरौद्रध्यानरूपताऽत्यन्तकलुषमधमंच भवतीति ! मू. (५२४) एवं तु समणा एगे, मिच्छद्दिट्टी अनारिया।
विसएसणं झियायंति, कंका वा कलुसाहमा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org