________________
२२०
सूत्रकृताङ्ग सूत्रम् १/११/-/५१७
शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनमावं व्रजति मुनिगणः कूपवप्रादिकार्ये ॥
तदेवमुभयथापि भाषिते 'रजसः' कर्मण 'आयो' लाभो भवतीत्यतस्तमायं रजसो मौनेनानवद्यभाषणेन वा 'हित्वा' त्यक्त्वा 'ते' अनवद्यभाषिणो 'निर्वाण' मोक्षं प्राप्नुवन्तीति ॥ मू. (५१८) निव्वाणं परमं बुद्धा, नक्खत्ताण व चंदिमा । तम्हा सदा जए दंते, निव्वाणं संधए मुनी ॥
वृ. अपिध-निर्वृतिर्निर्वाणं तत्परमं प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा तानेव बुद्धान् निर्वाणवादित्वेन प्रधानानित्येतद्दष्टान्तेन दर्शयति-यथा 'नक्षत्राणाम्' अश्विन्यादीनां सौम्यत्वप्रमाणप्रकाशकत्वैरधिकश्चन्द्रमाः ।
एवं परलोकार्थिनां बुद्धानां मध्ये ये स्वर्गचक्रवर्तिसंपन्निदानपरित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्त एव प्रधाना नापर इति, यदिवा यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं 'बुद्धा' अवगतत्तत्त्वाः प्रतिपादयन्तीति, यस्माच्च निर्वाणं प्रधानं तस्मात्कारणात् 'सदा' सर्वकालं 'यतः' प्रयतः प्रयत्नवा इन्द्रियनोइन्द्रियदमनेन दान्तो 'मुनिः' साधुः 'निर्वाणमभिसंधयेत्' निर्वाणार्थं सर्वा क्रियाः कुर्यादित्यर्थ ॥ पू. (५१९) वुज्झमाणाण पाणाण, किच्चंताण सकम्भुणा । आघाति साहु तं दीवं, पतिट्ठेसा पवुच्चई ॥
वृ.
किञ्चान्यत्-संसारसागरोतोभिर्मिथ्यात्वकषायप्रमादादिकैः 'उह्यमानानां तदभिमुखं नीयमानानां तथा स्वकर्मोदयेन निकृत्यमानानामशरणानामसुमतां परहितै करतोऽ कारणवत्सलस्तीर्थकृदन्यो वा गणधराचार्यादिकस्तेषामाश्वासभूतं 'साधुं' शोभनं द्वीपमाख्याति, यथा समुद्रान्तः पतितस्य जन्तोर्जलकल्लोलाकुलितस्य मुमूर्षोरतिश्रान्तस्य विश्रामहेतुं द्वीपं कश्चित्साधुर्वत्सलतया समाख्याति ।
एवं तं तथाभूतं 'द्वीपं सम्यग्दर्शनादिकं संसारभ्रमणविश्रामहेतु परतीर्थिकैरनाख्यातपूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठानं प्रतिष्ठा-संसारभ्रमणविरतिलक्षणैषा सम्यग्दर्शनाद्यवाप्तिसाध्या मोक्षप्राप्ति प्रकर्षेण तत्त्वज्ञैः 'उच्यते' प्रोच्यत इति ॥
मू. (५२०)
आयगुत्ते सया दंते, छिन्नसोए अनासवे । जे धम्मं सुद्धमक्खाति, पडिपुन्नमनेलिसं ॥
वृ. किंभूतोऽसावाश्वासद्वीपो भवति ? कीद्दग्विधेन वाऽसावाख्यायत इत्येतदाहमनोवाक्कायैरात्मा गुप्तो यस्य स आत्मगुप्तः, तथा 'सदा' सर्वकालमिन्द्रियनोइन्द्रिरयदमनेन दान्तोवश्येन्द्रियो धर्मध्यानध्यायी वेत्यर्थः । तथा छित्रानि-त्रोटितानि संसारास्रोतांसि येन स तथा, एतदेव स्पष्टतरमाह-निर्गत आश्रवः प्राणातिपातादिकः कर्मप्रवेशद्वाररूपो यस्मात्स निराश्रवो य एवंभूतः स समस्तदोषापेतं धर्ममा- ख्याति, किंभूतं धर्मं ? - 'प्रतिपूर्ण' निरवयवतया सर्वविरत्याख्यं मोक्षगमनैकहेतुम् 'अनीध्शम्' अनन्यसध्शमद्वितीयमितियावत् ॥
पू. (५२१)
- एवंभूतधर्मव्यतिरेकिणां दोषाभिधित्सयाऽऽहतमेव अविजाणंता, अबुद्धा बुद्धमानिनो । बुद्धा मोत्ति यमत्रंता, अंत एते समाहिए ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org