SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-११, _२१९ २१९ भू. (५१३) तहा गिरं समारब्ध, अत्थि पुण्णंति नो वए। अहवा नस्थि पुण्णति, एवमेयं महब्भयं ।। वृ. केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः-किमस्मदनुष्ठाने अस्ति पुण्यमाहोस्विन्नास्तीति?,एवंभूतां गिरं 'समारभ्य' निशम्याश्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथापि महाभयमिति मत्वा दोषहेतुत्वेन नानुमन्येत । मू. (५१४) दानट्टया य जे पाणा, हम्मति तसथावरा। तेसिं सारखणट्टाए, तम्हा अस्थित्ति नो वए।। वृ.किमर्थं नानुमन्येत इत्याह-अत्रपानदानार्थमाहारमुदकंच पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत, तत्र यस्माद 'हन्यन्ते' व्यापाद्यन्ते त्रसाः स्थावराश्च जन्तवः तस्मात्तेषां रक्षणार्थ' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोऽत्र भवदीयानुष्ठाने पुण्यमित्येवंनो वदेदिति। मू. (५१५) जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं। तेसिं लाभंतरायंति, तम्हा नस्थित्ति नो वए। वृ. यद्येवं नास्ति पुण्यमिति ब्रूयात्, तदेतदपि न ब्रूयादित्याह-'येषां' जन्तूनां कृते 'तद्' अन्नपानादिकंकिलधर्मबुद्धया उपकल्पयन्ति' तथाविधप्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तनिषेधे च यस्मात् तेषाम्' आहारपानार्थिनां तत् 'लाभान्तरायो' विघ्नो भवेत्, तदभावेन तुतेपीङयेरन्, तस्मात्कूपखननसत्रादिके कर्मणि नास्ति पुण्यमित्येतदपिनो वदेदिति। मू. (५१६) जेय दानं पसंसंति, वहमिच्छंति पाणिणं। जे यणं पडिसेहंति, विचिच्छेयं करंति ते॥ वृ.एनमेवार्थपुनरपिसमासतः स्पष्टतरं बिभणिषुराह-ये केचन प्रपासत्रादिकंदानं बहूनां जन्तुनामुपकारीतिकृत्वा प्रशंसन्ति' श्लाघन्ते ते परमार्थानभिज्ञाः प्रभूततरप्राणिनांतप्रशंसाद्वारेण 'वधं' प्राणातिपातमिच्छन्ति, तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपिच किल सूक्ष्मधियो चयमित्येवं मन्यमानाआगमसद्भावानभिज्ञाः 'प्रतिषेधन्ति' निषेधयन्ति तेऽप्यगीतार्था प्राणिनां 'वृत्तिच्छेदं' वर्तनोपायविघ्नं कुर्वन्तीति ॥ तदेवं राज्ञा वेश्वरेण कूपतडागयागसत्रदानाधुद्यतेन पुण्यसद्भाव पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाहमू. (५१७) दुहओवि ते न भासंति, अस्थि वा नत्थि वा पुणो । आयं रयस्स हेचा णं, निव्वाणं पाउणंति ते॥ वृ. यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्त्वानां सूक्ष्मबादराणां सर्वदा प्राणत्याग एवस्यात्प्रीणनमात्रंतुपुनः स्वल्पानांस्वल्पकालीयमतोऽस्तीतिनवक्तव्यं नास्तिपुण्यमित्येवं प्रतिषेधेऽपितदर्थिनामन्तरायः स्यादित्यतो 'द्विघापि' अस्ति नास्ति वापुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्नभाषन्ते, किंतुष्टः सद्भिर्मोनसमाश्रयणीयं, निर्बन्धे त्वस्माकंद्विचत्वारिंशद्दोषवर्जित आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च - ॥१॥ सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, ___ व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy