________________
सूत्रकृताङ्ग सूत्रम् १/११/-/५०८ कर्माण्यभिभूय मोक्षमार्गे पालयितव्ये प्रभुः समर्थः, स एवंभूतः प्रभुः दूषयन्तीति दोषा- मिथ्यात्वाविरतिप्रमादकषाययोगास्तान्। ‘निराकृत्य' अपनीय केनापि प्राणिना सार्धं 'न विरुध्येत' न केनचित्सह विरोधं कुर्यात्, त्रिविधेनापि योगेनेति मनसा वाचा कायेन चैवान्तशो-यावज्जीवं, परापकारक्रियया न विरोधं कुर्यादिति । उत्तरगुणानधिकृत्याह
मू. (५०९)
संवुडे से महापत्रे, धीरे दत्तेसणं चरे । एसणासमिए निचं, वज्जयंते अनेसणं ॥
२१८
वृ. आश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञोविपुलबुद्धिरित्यर्थः, तदनेन जीवाजीवादिपदार्थाभिज्ञतावेदिता भवति, 'धीरः' अक्षोभ्यः क्षुत्पिपासादिपरीष हैर्न क्षोभ्यते, तदेव दर्शयति
―
आहारोपधिशय्यादिके स्वस्वामिना तत्संदिष्टेन वा दत्ते सत्येषणां चरति एषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेषणग्रहणग्रासरूपायां त्रिविधायामपि सम्यगितः समितः, स साधुर्नित्य- मेषणासमितः सन्ननेषणां 'वर्जयन्' परित्यजन्संयममनुपालयेत्, उपलक्षणार्थत्वादस्य शेषाभिर- पीर्यासमित्यादिभिः समितो द्रष्टव्य इति ।
भू. (५१०)
भूयाइं च समारंभ, तमुद्दिस्सा य जं कडं । तारितं तु न गिण्हेजा, अन्नपाणं सुसंजए ॥
वृ. अनेषणीयपरिहारमधिकृत्याह-अभूवन् भवन्ति भविष्यन्ति च प्राणिनस्तानि भूतानि प्राणिनः 'समारभ्य' संरम्भसमारम्मारम्भैरुपतापयित्वा तं साधुम् 'उद्दिश्य' साध्वर्थं यत्कृतं तदुपकल्पितमाहारोपकरणादिकं ।
‘तादृशम्’ आधाकर्मदोषदुष्टं 'सुसंयतः' सुतपस्वी तदन्नं पानकं वा न भुञ्जीत, तुशब्दस्यैवकारार्थत्वान्नैवाभ्यवहरेद् एवं तेन मार्गोऽनुपालितो भवति ।
यू. (५११)
पूईकम्पं न सेविज्जा, एस धम्मे वुसीमओ ।
जं किंचि अभिकंखेजा, सव्वसो तं न कप्पए ।
वृ. किञ्च आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं 'न सेवेत' नोपभुञ्जीत, एषः - अनन्तरोक्तो धर्मः कल्पः स्वभावः 'वुसीमओ' त्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं परिहरतीति, किञ्चयदप्यशुद्धतेवानभिकाङ्क्षेत्-शुद्धमप्यशुद्धत्वेनाभिशङ्केत किञ्चिदप्याहरादिकंतत् 'सर्वशः’ सर्वप्रकारमप्याहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति ।
मू. (५१२)
हनंतं नानुजाणेजा, आयगुत्ते जिइंदिए ।
ठाणाई संति सड्ढीणं, गामेसु नगरेसु वा ॥
-
वृ. किञ्चान्यत्-धर्मश्रद्धावतां ग्रामेषु नगरेषु वा खेटकर्बटादिपु वा 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते । तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन किल धर्मश्रद्धालुतया प्राण्युपमर्दकारिणीं धर्मबुद्धया कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूताक्रियायाः कर्त्रा किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टथेऽपृष्टो वा तदुपरोधाद्भयाद्वा तं प्राणिनो घ्नतं नानुजानीयात्, किंभूतः सन् ? - -'आत्मना' मनोवाक्कायरूपेण गुप्त आत्मगुप्तः तथा 'जितेन्द्रियो' वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत - सावधानुष्ठानानुमर्ति परिहर्तुकाम आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org