________________
२१७
श्रुतस्कन्धः - १, अध्ययनं-११, सुखलिप्सवश्च मन्वानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति ।
युक्तयश्चतप्रसाधिकाःसंक्षेपेणेमाइति-सात्मिकापृथिवी, तदात्मनांविद्रुमलवणोपलादीनां समानजातीयाङ्कुरसद्भावाद्, अर्थोविकाराङ्कुरवत्। तथा सचेतनमम्भः, भूमिखननाविकृतस्वभावसंभवाद्, दर्दुरवत् । तथा सात्मकंतेजः, तद्योग्याहारवृद्धया वृद्धयुपलब्धेः, बालकवत् । तथा सात्मको वायुः, अपराप्रेरितनियततिरश्चीनगतिमत्त्वात्, गोवत् ।
तथा सचेतना वनस्पतयः, जन्मजरामरणरोगादीनां समुदितानां सद्भावात्, स्त्रीवत्, तथा क्षतसंरोहणाहारोपादानदीहृदसद्भावस्पर्शसंकोचसायाह्नस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धि। द्वीन्द्रियादीनांतु पुनः कृम्यादीनां स्पष्टमेव चैतन्यं, तद्वेदनाश्चौपक्रमिकाः स्वाभाविकाश्च समुपलभ्य मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दानिवर्तितव्यमिति॥ मू. (५०६) एयंखु नाणिणो सारं, जन हिंसति कंचण।
अहिंसा समयं चेव, एतावंतं विजाणिया ।। वृ.एतदेवसमर्थयन्नाह-खुशब्दोवाक्यालङ्कारेऽवधारणेवा, एतदेव' अनन्तरोक्तंप्राणातिपातनिवर्तनं 'ज्ञानिनो' जीवस्वरूपतद्वधकर्मबन्धवेदिनः ‘सारं परमार्थतः प्रधानं, पुनरप्यादरख्यापनार्थमेतदेवाह-यत्कञ्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेवसारतरंज्ञानं यत्राणातिपातनिवर्तनमिति, ज्ञानमपितदेव परमार्थतो यत्परपीडातोनिवर्तनं, तथा चोक्तम् - ॥१॥ "किं ताए पढियाए ? पयकोडीए पलालभूयाए ।
जस्थित्तियं न नायं परस्स पीडा न कायव्वा ॥ तदेवमहिंसाप्रधानः समय-आगमः संकेतोवोपदेशरूपस्तमेवंभूतमहिंसासमयमेतावन्तमेव विज्ञाय किमन्येन बहुना परिज्ञानेन ?,एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षितकार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनेति। मू. (५०७) उर्ल्डअहे य तिरियं, जे केइ तसथावरा।
सम्वत्थ विरतिं विज्ञा, संति निव्याणमाहियं ।। वृ. साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याह-ऊर्ध्वमस्तिर्यक्च ये केचन त्रसा:-तेजोवायुद्वीन्द्रियादयः तथा स्थावराः-पृथिव्यादयः, किंबहुनोक्तेन?, सर्वत्र' प्राणिनित्रसस्थावरसूक्ष्मबादरभेदाभिन्ने 'विरतिं' प्राणातिपातनिवृत्तिं 'विजानीयात् कुर्यात्।
परमार्थत एवमेवासौ ज्ञाता भवतियदि सम्यक्रियत इति, एषैवच प्राणातिपातनिवृत्ति परेषामात्मनश्च शान्तिहेतुत्वाच्छान्तिवतते, यतो विरतिमतो नान्ये केचन बिभ्यति, नाप्यसौ भवान्तरेऽपि कुतश्चिद्बिभेति, अपिच-निर्वाणप्रधानैककारणत्वान्निर्वाणमपि प्राणातिपातनिवृत्तिरेव, यदिवाशान्तिः-उपशान्तता निवृतिः-निर्वाणं विरतिमांश्चातरौद्रध्यानाभावदुपशान्तिरूपो निर्वृतिभूतश्च भवति। मू. (५०८) पभूदोसे निराकिच्चा, न विरुज्झेज केणई।
मणसा वयसा चेव, कायसा चेव अंतसो । वृ. किञ्चान्यत्-इन्द्रियाणां प्रभवतीति प्रमुर्वश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org