________________
श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक: - १
-
३५
कथं मुद्गरादेर्घटादीन् प्रत्यकिञ्चित्करत्वं ?, प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रिया प्रतिषेधात्मकोऽत्र नाश्रीयते, किं तर्हि ?, प्रागभावप्रध्वंसाभावेतरेतरात्यन्ताभावानां चतुर्णां मध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणां व्यापारो भवत्येव यतोऽसौ वस्तुतः पर्यायोऽवस्थाविशेषो नाभावमात्रं, तस्य चावस्थाविशेषस्य भावरूपत्वात्पूर्वोपमर्देन च प्रवृत्तत्वाद्य एव कपालादेरुत्पादः स एव घटादेर्विनाश इति विनाशस्य सहेतुकत्वमवस्थितम्, अपिच कादाचित्कत्वेन विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्थार्थं धावश्यमभावचातुर्विध्यमाश्रयणीयं तदुक्तम्"कार्यद्रव्यमनादि स्यात्प्रागभावस्य निह्नवे । प्रध्वंसस्य चाभावस्य प्रच्यवेऽनन्ततां व्रजेत् ॥
119 11
सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे इत्यादि । तदेवं क्षणिकस्य विचाराक्षमत्यात्परिणामानित्यपक्ष एव ज्यायानिति । एवञ्च सत्यात्मा परिणामी ज्ञानधारो भवान्तरयामी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि तथा सहेतुकोऽपि नारकतिर्यङमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणत्वात पर्यायरूपतयेति, तथाऽऽत्मस्वरूपाप्रच्युतेर्नित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुर्द्धातुकमात्रं शरीरमेवेदमित्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छरीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलचादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयितुमाह
पू. (१९)
अगारमावसंतावि, अरण्णा वावि पव्वया । इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चई ।
वृ. 'अगारं' गृहं तद् 'आवसन्तः ' तस्मिंस्तिष्ठन्तो गृहस्था इत्यर्थ, 'आरण्या वा' तापसादयः, 'प्रव्रजिताश्च' शाक्यादयः, अपि संभावने, इदं ते संभावयन्ति यथा- 'इदम् ' अस्मदीयं दर्शनम् 'आपन्ना' आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते, आर्षत्वादेकवचनं सूत्रे कृतं, तथाहि पञ्चभूततञ्जीवतच्छरीरवादिनामयमाशयः - यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लुञ्चननाम्यतपश्चरणकायक्लेशरूपेभ्यो
दुःखेभ्यो मुच्यन्ते, तथा चोचुः -
119 11
“तपांसि यातंनाश्चित्राः, संयमो भोगवञ्चनम् ।
अग्निहोत्रादिकं क्रम, बालक्रीडेव लक्ष्यत ।।"
इति, सांख्यादयस्तु मोक्षवादिन एवं संभवायन्ति यथायेऽस्मदीयं दर्शनमकर्तृत्वात्माऽद्वैतपञ्चस्कन्धादिरतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्दन्तीत्युक्तं भवति इदानीं तेषामेवाफलवादित्वाविष्करणायाह
पू. (२०)
मू. (२१)
Jain Education International
ते नावि संधि नच्चा णं, न ते धम्णविओ जणा । जे ते उ वाइणो एवं, न ते ओहंतराऽऽहिया ।। ते नावि सिंधिं नञ्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते संसारपारगा ॥
For Private & Personal Use Only
www.jainelibrary.org