________________
३६
सूत्रकृताङ्ग सूत्रम् १/१/१/२२
मू. (२२)
मू. (२३)
ते नावि संधिं नञ्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ।। ते नावि संधि नञ्चाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥ ते नावि संधि नञ्चाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ।। ते नाव संधि नञ्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते मारस्स पारगा ।।
मू. (२४)
मू. (२५)
वृ. ते पच्चभूतवाद्याद्या: 'नापि' नैव सन्धिं छिद्रं विवरं, स च द्रव्यभावभेदाद्दवेघा, तत्र द्रव्यसन्धिः कुद्ध्यादेः भावसन्धिश्च ज्ञानावरणादि कर्मविवररूपः तमज्ञात्वा ते प्रवृत्ताः णमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिर्द्विधाभावलक्षणो भवति तथा अबुध्ध्वैव ते वराका दुःखमोक्षार्थम्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च यदिवासन्धानं सन्धिः - उत्तरोत्तर पदार्थ परिज्ञानं तदज्ञात्वा प्रवृत्ता इति यतश्चैवमतस्ते न सम्यग्धर्मपरिच्छेदे कर्तव्ये विद्वांसो - निपुणा 'जनाः' पञ्चभूतास्तित्वादिवादितो लोक इदि, तथाहि
क्षान्त्यादिको दशविधो धर्मस्तमज्ञात्वैवान्यथाऽन्यथा च धर्मं प्रतिपादयन्ति, यत्फलाभावाच्च तेषामफलवादित्वं तदुत्तरग्रन्थेनोद्देशकपरिसमाप्तयवसानेन दर्शयति- 'येते त्विति' तुशब्दश्चशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'आघो' भवौघः संसारस्तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः । तथा च न ते वादिनः संसार गर्भ जन्म दुःख मारा दि पारगा भवन्तीति। ॥ यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाहनाणाविहारं दुक्खाई, अणुहोति पुणो पुणो । संसारचक्कवालंमि, मच्छुवाहिजराकुले ॥
मू. (२६)
मू. (२७)
उच्चावयाणि गच्छंता, गब्भमेस्संति नंतसो । नायपुत्ते महावीरे, एवमाह जिनोत्तमे ॥ - तिबेमि ।
वृ. 'नानाविधानि ' बहुप्रकाराणि 'दुःखानि ' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि नरकेषु करपत्रदारणकुम्भीपाकतप्तायः शाल्मलीसमालिङ्गनादीनि तिर्यक्षु च शीतोष्णदमनाङ्कनताडनाऽतिभारारोपणक्षुत्तृ डादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चामियोग्येष्यार्किल्बिषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंभूता वादिनस्ते पौनः पुन्येन समनुभवन्ति, एतच्च श्लोकार्द्ध सर्वेषूत्तर श्लोकार्थेष्वायोज्यम, शेषं सुगमं यावदुद्देशकसमाप्तिरिति । नवरम् 'उच्चावचानी' ति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भाद्गर्भमेष्यन्ति यास्यन्त्यनन्तशोनिर्विच्छेदमिति ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- ब्रवीम्यहं तीर्थकराज्ञया, न स्वमनीषिकया, स चाहं ब्रवीमि येन मया तीर्थङ्करसकाशाच्छ्रुतम्, एतेन च क्षणिकवादिनिरासो द्रष्टव्यः ।
अध्ययनं -१ उद्देशकः-१ समाप्तः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org