SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक:- १ १४१ तदेवाह - 'दुःखम्' इति नरकं दुःखहेतुत्वात् असदनुष्ठानं यदिवा नरकावास एव दुःखयतीति दुःखं अथवा असातावेदनीयोदयात् तीव्रपीडात्मकं दुःखमिति, एतच्चार्थतः परमार्थतो विचार्यमाणं 'दुर्ग' गहनं विषमं दुर्विज्ञेयं असर्वज्ञेन, तव्प्रतिपादकप्रमाणाभावादित्यभिप्रायः, यदिवा'दुहमदुग्गं' ति दुःखमेवार्थो यस्मिन् दुःखनिमित्तो वा दुःखप्रयोजनो वा स दुःखार्थो नरकः । स च दुर्गो-विषमो दुरुत्तरत्वात् तं प्रतिपादयिष्ये, पुनरपि तमेव विशिनष्टि-आसमन्ताद्दीनमादीनं तद्विद्यते यस्मिन्स आदीनिकः - अत्यन्तदीनसत्त्वाश्रयस्तथा दुष्टं कृतं दुष्कृतम् असदनुष्ठानं पापं वा तत्फलं वा असातावेदनीयोदयरूपं तद्विद्यते यस्मिन्स दुष्कृतिकस्तं, 'पुरस्ताद्' अग्रतः प्रतिपादयिष्ये, पाठान्तरं वा 'दुक्कडिणं' ति दुष्कृतं विद्यते येषां ते दुष्कृतिनो-नारकास्तेषां सम्बन्धि चरितं 'पुरस्तात्' पूर्वस्मिन् जन्मनि नरकगतिगमनयोग्यं यत्कृतं तत्प्रतिपादयिष्य इति यथाप्रतिज्ञातमाह मू. (३०२) जे केइ बाला इह जीवियट्ठी, पावाई कम्माई करंति रुद्दा । ते घोररूवे तमिसंधयारे, तिव्वाभितावे नरए पडंति ।। वृ. ये केचन महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सावधानुष्ठाने प्रवृत्ताः 'बाला' अज्ञा रागद्वेषोत्कटास्तिर्यग्मनुष्या 'इह' अस्मिन्संसारे असंयमजीवितार्थिनः पापोपादानभूतानि 'कर्माणि' अनुष्ठानानि 'रौद्राः ' प्राणिनां भयोत्पादकत्वेन भयानकाः हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीव्रपापोदयवर्तिनो 'घोररूपे' अत्यन्तभयानके 'तमिसंधयारे 'त्ति बहलतमोऽन्धकारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवाह्नि पश्यन्ति, तथा चागमः - "किहलेसे णं भंते ! नेरइए किण्हलेस्सं नेरइअं पणिहाए ओहिणा सव्वओ समंता समभिलीएमाणे केवइयं खेत्तं जाणई ? केवइयं खेत्तं पासइ ?, गोयमा ! नो बहुययरं खेत्तं जाणइ नो बहुययरं खेत्तं पासइ, इत्तरियमेव खेत्तं जाणइ इत्तरियमेव खेत्तं पासइ" इत्यादि तथा तीव्रो- दुःसहः खदिराङ्गारमहाराशितापादनन्तगुणोऽभितापः सन्तापो यस्मिन् स तीव्राभितापः तस्मिन् एम्भूते नरके बहुवेदने अपरित्यक्तविषयाभिष्वङ्गाः स्वकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तम् 119 11 “अच्छड्डियविसयसुहो पडइ अविज्झायसिहिसिहाणिवहे । ॥ २ ॥ ॥३॥ ॥४॥ ॥५॥ संसारोदहिवलयामुहंमि दुक्खागरे निरए । पायक्कंतोरत्थलमुहकुहरुच्छलियरुहिरगंडूसे । करवत्तुक्कत्तदुहाविरिक्कविविईण्णदेहद्धे ॥ - जंतंतरभिजंतुच्छलंतसंसद्दभरियदिसिविवरे । डज्झतुफिडियसमुच्छलंतसीसट्टिसंघाए । Jain Education International मुक्कक्कंदकडाहुक्कढंतदुक्कयकयंतकम्मंते । सूलविभिन्नक्खित्तुद्धदेहणिट्टंतपब्भारे ॥ सबंधयारदुग्गंधबंधणायारदुद्धरकिलेसे । भिन्नकरचरणसंकर रुहिरवसादुग्गमप्पवहे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy