________________
१४०
सूत्रकृताङ्ग सूत्रम् १/५/-/२९९/नि. [ ८३]
नि. [८३] कप्पेंति करकएहिं तच्छिति परोप्परं परसुएहिं । सिंबलितरुमारुहंती खरस्सरा तत्थ नेरइए ।
वृ. -खरस्वराख्यास्तु परमाधार्मिका नाराकनेवं कदर्थयन्ति, तद्यथा- क्रकचपातैर्मध्यं मध्येन स्तम्भमिवसूत्रपातानुसारेण कल्पयन्ति पाटयन्ति तथा परशुमिश्च तानेव नारकान् 'परस्परम्' अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवापनयनेन तनून् कारयन्ति, तथा 'शामली' वज्रमयभीषणकण्टकाकुलां खरस्वरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्षयन्तीति भी य पलायंते संमततो तत्थ ते निरुंभंति । पसुणो जहा पसुवहे महधोसा तत्त नेरइए ।
।
नि. [ ८४ ]
वृ. अपिच महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्षमुद्वहन्तः क्रीडया नानाविधैरुपायैर्नारिकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव 'समन्ततः' सामस्त्येन 'तत्रैव' पीडोत्पादनस्थाने 'निरुम्भन्ति' प्रतिबन्धन्ति 'पशून्' बस्तादिकान यथा पशुवधे समुपस्थिते नश्यतस्तद्वधकाः प्रतिबन्धन्त्येवं तत्र नरकावासे नारकानिति
गतो नामनिष्पन्ननिक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम्-: अध्ययनं -५ उद्देशकः-१ :
मू. (३००) पुच्छिस्सऽहं केवलियं महेसिं, कहं भितावा नरगा पुरत्या ? । अजाणओ मे मुनि बूहि जाणं, कहिं न बाला नरयं उविंति ? ॥
वृ. जम्बूस्वामिना सुधर्मस्वामी पृष्टः, तद्यथा-भगवन् ! किंभूता नरकाः ? कैर्वा कर्मभिरसुमतां तेषुत्पादः ? कीदृश्यो वा तत्रत्या वेदना ? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतदुद्भवताऽहं पृष्टस्तदेतद् 'केवलिनम्' अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं 'महर्षिम्' उग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानस्वामिनं परस्तात्पूर्वं पृष्टवानहमस्मि ।
यथा 'कथं' किम्भूता अभितापान्विता 'नरका' नरकावासा भवन्तीत्येतदजानतो 'मे' म मुने 'जानन् ' सर्वमेव केवलज्ञानेनावगच्छन् 'ब्रूहि' कथय, 'कथं नु' केन प्रकारेण किमनुष्टायिनो नुरिति वितर्के 'बाला' अज्ञा हिताहितप्राप्तिपरिहारविवेकरहितास्तेषु नरकेषूप- सामीप्येन तद्योग्यकर्मोपादानतया 'यान्ति' गच्छन्ति किम्भूताश्च तत्र गतानां वेदनाः प्रादुष्यन्तीत्येतनाहं 'पृष्टवानि'ति ॥
मू. (३०१) एवं मए पुट्टे महानुभावे, इणमोऽब्बवी कासवे आसुपन्ने । पवेदइस्सं दुहमदुग्गं, आदीनियं दुक्क डियं पुरत्या ||
वृ. तथा 'एवम् अनन्तरोक्तं मया विनेयेनोपगम्य पृष्टो महांश्चतुस्त्रिंशदतिशयरूपोऽनुभावो
माहात्म्यं यस्य स तथा, प्रश्नोत्तरकालं च 'इदं' वक्ष्यमाणं, मो इति वाक्यालङ्कारे, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनम् 'अब्रवीत्' उक्तवान् कोऽसौ ? - 'काश्यपो' वीरो वर्धमानस्वामी आशुप्रज्ञः सर्वत्र सदोपयोगात्, स चैवं मया पृष्टो भगवानिदमाह-यथा यदेतद्भवता पृष्टस्तदहं ‘प्रवेदयिष्यामि’ कथयिष्याम्यग्रतो दत्तावधानः शृण्विति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org