SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः - नि. [७७] कप्पंति कागिणीमंसगाणि छिंदंति सीहपुच्छाणि । खावंति य नेरइए महकाला पावकम्मरए । वृ.अपिच-महाकालाख्यानरकपालाः पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्धयन्ति, तद्यथा - काकिणीमांसकानि श्लक्ष्णमांसखण्डानि ‘कल्पयन्ति' नारकान् कुर्वन्ति, तथा ‘सीहपुच्छाणिति पृष्ठीवर्धास्तांश्छिन्दन्ति, तथा येप्राक्मांसाशिनोनारका आसन्तान स्वमांसानि खादयन्तीति नि. [७८] हत्थे पाए ऊरू बाहुसिरापायअंगमंगाणि । छिंदंति पगामं तू असि नेरइए निरयपाला ।। वृ.अपिच-असिनामानोनरकपालाअशुभकर्मोदयवर्तिनोनारकानेवं कदर्थयन्ति, तद्यथाहस्तपादोरूबाहुशिरःपाश्वर्वादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति। नि. [७९] कण्णोढणासकरचरणदसणट्टणफुग्गऊरूबाहूणं । छेयणभेयणसाडण असिपत्तधणूहि पाडंति ॥ वृतथा-असिप्रधानाः पत्रधनुर्नामानोनरकपालाअसिपत्रवनं बीभत्संकृत्वातत्रछायार्थिनः समागतान् नारकान् वराकान् अस्यादिभि पाटयन्ति, तथा कर्णौष्ठनासिकाकरचरणदशनस्तनस्फिगूरुबाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदुक्तम् -- ॥१॥ "छिनपादभुजस्कन्धाश्छिन्नकोष्ठनासिकाः । भिन्नतालुशिरोमेण्द्रा, भिन्नाक्षिहदयोदराः ।। नि. [८०] कुम्भीसु य पयणेसु य लोहियसुय कंदुलोहिकुंभीसु । कुंभी य नरयपाला हणंति पाडं ति नरएसु॥ वृ. किञ्चान्यत्-कुम्भिनामानो नरकपाला नारकानरकेषु व्यवस्थितान् निजन्ति, तथा पाचयन्ति, क्वैति दर्शयति-'कुम्भीषु' उष्ट्रिकाकृतिषुतथा पचनेषु कडिल्लकाकृतिषुतथा 'लौहीषु' आयसभान- विशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषुकोष्ठिकाकृतिषु एवमादिभाज-नविशेषेषुपाचयन्ति। नि. [८१] तडतडतडस्स भज्जति भञ्जणे कलंबुवालुगापढे । वालूगा नेरइया लोलंती अंबरतलंमि।। वृतथा-वालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतडित्ति स्फुटतः 'भनंति' भृञ्जन्ति-पचन्ति, क्व ? इत्याह कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः पृष्ठम्उपरितलं तस्मिन् पातयित्वा अम्बरतले च लोलयन्तीति । नि. [८२] पूयरुहिरकेसट्टिवाहिणी कलकलेंतजलसोया। वेयरणिनिरयपाला नेरइए ऊ पवाहति ।। वृ. किञ्चान्यत्-वैतरणीनामानो नरकपाला वैतरणी नदी विकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यांच क्षारोष्णजलायामतीवबीभत्सदर्शनायां नारकान् प्रवाहयन्तीति । तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy