SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३८ नारकान् कदर्थयन्ति । किञ्चान्यत् । नि. [७१] सूत्रकृताङ्ग सूत्रम् १/५/-/२९९/नि. [ ७०] ओहहये य तहियं निस्सन्ने कप्पणीहि कप्पंति । विदुलगचडुलगछिन्ने अंबरिसी तत्थ नेरइए । वृ. उप-सामीप्येन मुद्रारादिना हता उपहता : पुनरप्युपहता एव खङ्गादिना हता उपहतहतास्तान्नारकारन् ‘तस्यां' नरकपृथिव्यां 'निसंज्ञकान्' नष्टसंज्ञान् मूर्च्छितान्सतः कर्प्पणीभिः 'कल्पयन्ति' छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा 'द्विदलचटुलकच्छिन्नानि 'ति मध्यपाटितान् खण्डशश्छिन्नांश्च नारकांस्तत्र नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा 'अपुण्यवतां ' तीव्रासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतच्चैतच्च प्रवर्तयन्ति । नि. [७२] साडणपाडणतोडण बंधणरजुल्लयप्पहारेहिं । सामा नेरइयाणं पवत्तयंती अपुण्णाणं ।। वृ. तद्यथा-'शातनम्' अङ्गोपाङ्गानां छेदनं, तथा 'पातनं' निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा 'प्रतोदनं' शूलादिना तोदनं व्यधनं, सूच्यादिना नासिकादौ वेधस्तथा रज्यादिना क्रूरकर्मकारिणं बन्धन्ति, तथा तार्थग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादनं दारुणं शातनपातनवेधनबन्धनादिकं बहुविधं ' प्रवर्तयन्ति' व्यापारयन्तीति, अपिच-तथा-सबलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति । नि. [७३] अंतगयफिम्फिसाणि य हिययं कालेज फुप्फुसे वक्के । सबला नेरतियाणं कड़्ढेंत तहिं अपुन्नाणं ।। वृ. तद्यथा - अन्न्रगतानि यानि फिफिसानि अन्त्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा हृदयं पाटयन्ति तथा तद्गतं 'कालेजं' ति हृदयान्तर्वर्ति मांसखण्डं तथा 'फुप्फुसे त्ति उदरान्तर्वर्तीन्यन्त्रविशेषरूपाणि तथा 'वल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणां तीव्रां वेदनामुत्पादयन्तीति । नि. [७४] असिसत्तिकोंततोमरसूलतिसूलेसु सूइचियगासु । पोयंति रुद्दकम्मा उ नरगपाला तहिं रोद्दा ॥ वृ. अपिच-तथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । नि. [ ७५ ] भंजंति अंगमंगाणि ऊरुबाहूसिराणि करचरणे । कप्पेंति कप्पणीहिं उवरुद्दा पावकम्मरया । वृ. तथा उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहूरुकादीनि तथा करचरणांश्च 'भञ्जन्ति' मोटयन्ति पापकर्माणः कल्पनीभि 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति । नि. [ ७६ ] मीरासु सुंठएसु य कंडूसुं य पयंडएसु य पयंति । कुंभीय लोहिए य पयंति काला उनेरतिए । वृ. अपिच तथा कालाख्या नरकपालासुरा 'मीरासु' दीर्घचुल्लीषु तथा शुष्ठकेषु तथा कन्दुकेषु जीवन्मत्स्यानिव पचन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy