SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः - १३७ षटप्रकारा, तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुस्येकैकैकैकषङभेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्त्वचारित्रभेदाद् द्विविधः। क्षायिकः सम्यकत्वचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदान्नवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः तथा सम्यक्त्वचारित्रसंयमासंयमभेदक्रमेणाप्टादशधेति, पारिणामिको जीवभव्याभव्यत्वादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः, संभवी तु षड्विधोऽयमेव गतिभेदात्पञ्चदशधेति । अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः अमूर्तानां गतस्थित्यवगाहवर्तनादिक इति, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाहनि. [६७] पुढवीफासं अन्नानुवक्कम निरयवालवहणं च । तिसु वेदेति अताणा अनुभागं चेव सेसासु ।। पृथिव्याः-शीतोष्णरूपायास्तीव्रवेदनोत्पादकोयः स्पर्श-सम्पर्क पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि-अन्येन देवादिना उपक्रमितुम्-उपशमयितुं योन शक्यते सोऽन्यानुपक्रमस्तम्, अपराचिकित्स्यमित्यर्थ, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्श नारकाः समनुभवन्ति, उपलक्षणार्थत्वाचास्य रूपरसगन्धस्पर्शशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति । तथा नरकपालैः-पञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासु 'तिसृषु' रलशर्करावालुकाख्यासु पृथिवीषु स्वकृतकर्मफलभुजो नारका 'अत्राणा' अशरणाः प्रभूतकालं यावदनुभवन्ति, शेषासु' चतसृषुपृथिवीषुपङ्कघूमतमोमहातमःप्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि स्वत एव तत्कृतवेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको वेदनासमुदघातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति । साम्प्रतं परमाधार्मिकानामाद्यासुतिसृषु पृथिवीषु वेदनोत्पादकान् स्वनामग्राहं दर्शयितुमाहनि. [६८] अंबे अंबरिसी चेव, सामे य सबलेविय। रोद्दोवरुद्द काले य, महाकालेत्तिआवरे ।। नि. [६९] असिपत्ते धणुं कुंभे, वालु वेयरणीविय। खरस्सरे महाघोसे, एवं पन्नरसाहिया ।। गाथाद्वयं प्रकटार्थम्, एवं ते चाम्बइत्यादयः परमाधार्मिका याक्षां वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञत्वात्ताशाभिधाना एव द्रष्टव्या इति, साम्प्रतं स्वाभिधानापेक्षया यो यां वेदना परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाहनि. [७०] धाडेंति य हाडेति य हणंति विधंति तह निसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ नेरइया ।। वृ.तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनानरकावासंगत्वा क्रीडया नारकान्अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो 'धाडेति'त्ति प्रेरयन्ति-स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा पहाडेति'त्ति स्वेच्छयेतश्चेतश्चानाथंभ्रमयन्ति, तथाअम्बरतलेप्रक्षिप्यपुनर्निपतन्तंमुद्गरादिना नन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति'त्ति कृकाटिकायां गृहीत्वा भूमौ पातयन्ति अधोमुखान्, तथोक्षिप्य अम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बनया 'तत्र' नरकपृथिवीषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy