________________
श्रुतस्कन्धः - १, अध्ययनं. १२,
२३९
तथागताः-तीर्थकरत्वं केवलज्ञानंचगताः, श्रमणाः' साधवो 'ब्राह्मणाः' संयतासंयताः,लौकिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा क्वचित्पाठः ।
यथासमाधिमार्गोव्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यथा यत्किञ्चित्संसारान्तर्गतानामसुमतां दुःखम्-असातोदयस्वभावं, तत्प्रतिपक्षभूतं च सातोदयपादितं सुखं, तस्वयम्आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तम्॥१॥ “सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं!
अवराहेसु गणेसुय निमित्तमित्तं परो होइ" एतच्चाहस्तीर्थकरगणधरादयः, तद्यथा-विद्या-ज्ञानं चरणं-चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तम् -- ॥१॥ "क्रियांच सज्ज्ञान वियोगनिष्फलां, क्रियाविहीनां च विबोधसम्पदम्।
निरस्यता क्लेशसमूहशान्यते त्वया शिवायालिखितेव पद्धतिः।। मू. (५४६) ते चक्खु लोगसिह नायगा उ, मग्गाणुसासंति हितं पयाणं।
तहा तहा सासयमाहु लोए, जंसी पया माणव! संपगाढा ।। वृ. किञ्च-'ते' तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके चक्षुरिव चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणकारयन्ति, तथाऽस्मिन्लोकेते नायकाः-प्रधानाः, तुशब्दोविशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह-'मार्ग' ज्ञानादिकं मोक्षमार्ग 'अनुशासति' कथवन्ति प्रजना-प्रजायन्त इति प्रजाः-प्राणिनस्तेषां, किम्भूतं?।
हितं, सद्गतिप्रापकमनर्थनिवारकंच, किञ्च-चतुर्दशरज्ज्वात्मके लोके पञ्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा 'त आहुः उक्तवन्तः, यदिवा लोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा ततैवाहुः, तद्यथायथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, तथाहि-तत्र तीर्थकराहारकवाः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति ।
तथाच महारम्भादिभिश्चतुर्भिस्थानैर्जीवानरकायुष्यावनिवर्तयन्तितावत्संसारानुच्छेद इति, अथवा यथा यथा रागद्वेषादिवृद्धिस्तता तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथातथैव संसारभिवृद्धिरिति । दुष्टमनोवाक्कायाभिवृद्धौ वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्याभिवृद्धिर्भवति । 'यस्मिंश्च' संसारे, प्रजायन्त इति 'प्रजाः' जन्तवः, हे मानव!, मनुष्याणामेवप्रायशउपदेशार्हत्वात्मानवग्रहणं, सम्यगनारकतिर्यङनरामरभेदेन 'प्रगाढाः' प्रकर्षेण व्यवस्थिता इति । लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाहमू. (५४७) जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधव्वा य काया।
आगासगामी य पुढोसिया जे, पुणो पुणो विपरियासुवेति ।। वृ. 'ये' केचन व्यन्तरभेदा राक्षसात्मानः, तदग्रहणाच सर्वेऽपि व्यन्तरा गृह्यन्ते तथा यमलौकिकात्मानः, अम्बादयस्तदुपलक्षणात्सर्वे भवनपतयः तथा ये च 'सुराः' सौधर्मादिवैमानिकाः, चशब्दाज्योतिष्काः सूर्योदयः, तथा ये गान्धर्वा' विद्याधरा व्यन्तरविशेषा वा, तद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org