SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - ३, सतच्छरीराहारको भवति आहारागुप्तश्च कर्मादत्ते कर्मणा च नानाविधासु योनिषु अरहट्टघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयं एतद्विपर्यासे दुःखमुपगच्छन्तीति । एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चमिः समितिभिः समितो यदिवा सम्यग्ज्ञानादिके मार्गे इतोगतः समितः तथा सह हितेन वर्तते सहितः सन् सदा-सर्वकालं यावदुच्छ्वासं तावद्यतेत सत्संयमानुष्ठाने प्रयत्नवान् भवेदिति । इति परिसमाप्तयर्थे, ब्रवीमीतिपूर्ववत् । गतोऽनुगमः । साम्प्रतं नयाः, ते च प्राग्वद् द्रष्टव्यः । अध्ययनं ३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य तृतीय अध्ययनटीका परिसमाप्ता । अध्ययनं-४- "प्रत्याख्यान क्रिया" वृ. तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोऽभिहितोऽतोऽत्र तत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुणसंपादनार्थं शुद्धेतराहारविवेकार्थमाहरपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यानक्रियासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्ययनमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-इह कर्मोपादान भूतस्याशुभस्य प्रत्याख्यानं प्रतिपाद्यति इति । साम्प्रतं निक्षेपः, तत्राप्योधनिष्पन्नेऽध्ययनं नामनिष्पन्ने प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपदनिक्षेपार्थं नियुक्तिकृदाहनि. [ १७९] नामंठवणादविए अइच्छ पडिसेहए य भावे य । एसी पच्चक्खाणस्स छव्विहो होइ निक्खेवो ॥ ३९१ घृ. नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः प्रत्याख्यानस्यायं षोढा निक्षेपः, तत्रापि नामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानं, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं द्रव्यप्रत्याख्यानं, द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य, एवमपराण्यपि कारकाणि स्वधिया योजनीयानि, तथा दातुमिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्या- नमदित्साप्रत्याख्यानं सत्यपि देये सति च संप्रदानकारके केवलं दातुर्दातुमिच्छा नास्तीत्यतोऽ- दित्साप्रत्याख्यानं, तथा प्रतिषेधप्रत्याख्यानमिदं । तद्यथा-विवक्षितद्रव्याभावाद्विशिष्टसंप्रदानकारकाभावाद्वा सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रतिषेधप्रत्याख्यानं, भावप्रत्याख्यानं तु द्विधा - अन्तःकरणशुद्धस्य साधोः श्रावकस्य वा मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति चशब्दादेतद् द्विविधमपि नोआगमतो भावप्रत्याख्यानं द्रष्टव्यं नान्यदिति । साम्प्रतं क्रियापदं निक्षेप्तव्यं तच्च क्रियास्थानाध्ययने निक्षिप्तमिति न पुनर्निक्षिप्यते । इह पुनर्भावप्रत्याख्यानैनाधिकार इति दर्शयितुमाहमूलगुणेसु य पगयं पञ्चक्खाणे इहं अधीगारो । होहु तप्पइया अप्पचक्खाणकिरिया उ ।। नि. [१८० ] For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy