SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् २/४/-1६९९/नि. [१८०] वृ. मूलगुणाः-प्राणातिपातविरमणादयस्तेषुप्रकृतम्-अधिकारःप्राणातिपातादेःप्रत्याख्यानं कर्तव्यमितियावत् 'इह' प्रत्याख्यानक्रियाध्ययनेऽर्थाधिकारो, यदि मूलगुणप्रत्याख्यानंन क्रियते ततोऽपायं दर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाद्यत्किञ्चनकारितयातनत्ययिका-तनिमित्ता भवेद्-उत्पधेत अप्रत्याख्यानक्रिया-सावधानुष्ठानक्रिया तव्यत्ययिकश्च कर्मबन्धः तन्निमित्तश्च संसार इत्यतःप्रत्याख्यानक्रियामुमुक्षुणा विधेयेति।गतोनामनिष्पन्नोनिक्षेपः,अधुना सूत्रानुगमे - स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् मू. (७००) सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु पञ्चक्खाणकिरियाणामज्झयणे, तस्स णं अयमढे पन्नत्ते-आया अपच्चक्खाणी यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए यावि भवति आया एगंतदंडे यावि भवति आया एगंतबाले यावि भवति आया एगंतसुत्ते यावि भवति आया अवियारमणवयणकायवक्के यावि भवति आया अप्पडिहयअपञ्चक्खायपावकम्मे याविभवति, एसखलु भगवता अक्खाए असंजते अविरते अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमणवयणकायवक्के सुविणमविन पस्सति, पावे यस कम्मे कञ्जइ। वृ.अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वक्तव्यः, स चायम्-इहानन्तराध्ययनपरिसमाप्ताविदं सूत्रम्-'आहारगुप्तः समितः सहितः सदायतेते'तिएतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम्, एवमनया दिशापरम्परसूत्रैरपि संबन्धोऽभ्युह्यः, 'इह' अस्मिन्प्रवचने सूत्रकृताङ्गेवा 'स्वल्वि'ति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्यायमर्थो वक्ष्यमाणलक्षणः, अततीत्यात्मा जीवः प्राणी, सचानादिमिथ्यात्वाविरतिप्रमादकषाययोगानुगततया स्वभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव कुतश्चिन्निमित्तात्प्रत्याख्यान्यपि, तत्रात्मग्रहणमपरदर्शनव्युदासार्थ, तथाहि-साङ्खयानामप्रच्युतानुत्पन्न स्थिरैकस्वभाव आत्मा, सचतृणकुब्जी-करणेऽप्यसमर्थतयाऽकिञ्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति, बौद्धानामप्यात्म- नोऽभावात् ज्ञानस्य च क्षणिकतयास्थितेरभावात् कुतः प्रत्याख्यानक्रियेति, एवमन्यत्रापिप्रत्याख्यानक्रियाया अभावो वाच्यः, तथा सदनुष्ठानं क्रिया तस्यां कुशलः क्रियाकुशलस्त-प्रतिषेधादक्रियाकुशलोऽप्यात्मा भवति, तथाऽऽत्मा मिथ्यात्वोदयसंस्थितोऽपि भवति, तथैकान्तेनापरान् - प्राणिनो दण्डयतीति दंडस्तदेवंभूतश्चात्मा भवति, तथाऽसारतापादनाद्रागद्वेषाकुलितत्वाद्वालवद्वाल आत्मा भवति, तथा सुप्तवत्सुप्तः, यथा हिद्रव्यसुप्तःशब्दादी विषयानून जानाति हिताहितप्राप्तिपरिहारविकलश्च तथा भावसुप्तोऽप्यात्मैवंभूतएव भवतीति, एवमविचारणीयानिअशोभनतयाऽनिरूपणीयान्यपालोचनीयानि मनोवाकायवाक्यानि यस्य स तथा, तत्र मनःअन्तःकरणं वाग्-वाणी कायो-देहः अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकतिङ सुबन्तं वा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वाद्यत्पुनक्यिग्रहणंकरोतितदेवंज्ञातयति-इह वागव्यापारस्य प्रचुरतया प्राधान्यं, प्रायशस्तत्प्रवृत्तयैव प्रतिषेधविधानयोरन्येषां प्रवर्तनं भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाकायवाक्यश्चापि भवतीति, तथाप्रतिहतंप्रतिस्खलितं प्रत्यारुपातं निराकृतं विरतिप्रतिपत्या पापकर्म-असदनुष्ठानं येन स प्रतिहतप्रत्याख्यातपापकर्मो तप्रतिषेधादसदनुष्ठानपरश्चात्मा भवतीति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy