________________
३९०
सूत्रकृताङ्ग सूत्रम् २/३/१६९३ तत्यवुकमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्ते सु वा पुढवित्ताए सकारत्ताए वालुयत्ताए इमाओ गाहाओ अनुगंतव्वाओ। मू. (६९४) पुढवी य सक्करा वालुया य उवले सिला य लोणूसे।
अय तउय तंब सीसग रुप्प सुवण्णे य वइरे य॥ मू. (६९५) हरियाले हिंगलुए मनोसिला सासगंजणपवाले।
अब्भपडलब्भवालय बायरकाए मणिविहाणा।। मू. (६९६) गोमेजए यरुयए अंके फलिहे यलोहियखे य।
मरगयमसारगल्ले भुयमोयग इंदनीले य॥ मू. (६९७) चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोद्धब्बे।
चंदप्पभवेरुलिए जलकंते सूरकंते य ।। मू. (६९८)एयाओ एएसुभाणियवाओ गाहाओजाव सूरकंतताए विउति, तेजीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारॅति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा नानावण्णा जावमक्खायं, सैसा तिन्नि आलावगा जहा उदगाणं।
वृ. अथापरमेतत्पूर्वमाख्यातं इहैके सत्त्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधत्रसस्थावराणांशरीरेषु सचित्तेषु अचित्तेषुवा पृथिवीत्वेनोत्पद्यन्ते, तद्यथा-सर्पशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपिशुक्त्यादिषु मौक्तिकानि व्यावरेष्वपि वेण्वादिषु तान्येवेति, एवमचित्तेषूषरादिषु लवणभावनोत्पद्यन्ते।
तदेवं पृथिवीकायिका नानाविधासुपृथिवीषुशर्करावालुकोपलशिलालवणादिभावेन तथा गोमेदकादिरलभावेन च बादरमणिविधानतया समुत्पद्यन्ते ।
शेषं सुगम यावच्चात्वारोऽप्यालापका उदकगमेन नेतव्या इति । साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो बिभणिषुराह
मू. (६९९) अहावरं पुरक्खायं सव्वे पाणा सव्ये भूता सब्वे जीवा सव्वे सत्ता नानाविहजोणिया नानाविहसंभवा नानाविहवुकमा सरीरजोणिया सरीरसंभवा सरीरवुकमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिइया कम्मणा चैव विपरियासमवेति ।। से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए सया जए-तिबेमि ॥
वृ.अथापरमेतदाख्यातं, तद्यथा-सर्वे 'प्राणाः' प्राणिनोऽत्रच प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्वेन द्रष्टव्याः, कथञ्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तेच नानाविधयोनिका नानविधासु योनिषूत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमनसंभवात्, ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहारयन्ति, तदाहारवन्तश्च तत्रागुप्तास्तदद्वारयाततत्कर्मवशगा नारकतिर्यङनरामरगतिषु जघन्यमध्यमोत्कृष्टिस्थितयो भवन्ति, अनेनेदमुक्तं भवति-यो यागिह भवे स तागेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं-दुःखमुपगच्छतीति॥
साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-यदेतन्मयाऽऽदितःप्रभृत्युक्तं, तद्यथा-योयत्रोत्पद्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org