________________
-
M
श्रुतस्कन्धः १, अध्ययन २, उद्देशकः ३
८५
तमात्मीयमाग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः, किमिति सर्वज्ञोकते मार्गे श्रद्धानमसुमान्न करोति ? येनैवमुपदिश्यते, तन्निमित्तमाह- 'हंदी' त्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्ठु अतिशयेन निरुद्धम्-आवृतं दर्शनं सम्यग् अवबोधरूपं यस्य स तथा, केनेत्याह-मोहयतीति मोहनीयं - मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन स्वकृते । कर्मणा निरुद्धदर्शनः प्राणी सर्वज्ञोक्तं मार्गं न श्रद्धत्ते अतस्तन्मार्ग श्रद्धानं प्रति चोद्यते इति ।
मू. (१५४)
दुक्खी मोहे पुणो पुणो, निव्विदेज्ज सिलोगपूयणं । एवं सहितेऽ हिपासए, आयतुलं पाणेहिं संजए।
वृ. पुनरप्युपदेशान्तरमाह-दुःखम् - असात वेदनीयमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहं याति सदसद्विवेकविकलो भवति, इदमुक्तं भवति-असातोदयात् दुःखमनुभवन्नार्तो मूढस्तत्तत्करोति येन पुनः पुनः दुःखी संसारसागरमनन्तमभ्येति, तदेवम्भूतं मोहं परित्यज्य सम्यगुत्थानेनोत्थाय 'निर्विद्येत' जुगुप्सयेत् परिहरेदात्मश्लाधां स्तुतिरूपां तथा 'पूजनं' वस्त्रादिलाभरूपं परिहरेत् ।
'एवम्' अनन्तरोक्तया नीत्या प्रवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रव्रजितोऽपरप्राणिभिः सुखार्थिभिः 'आत्मतुलां' आत्मतुल्यतां दुःखाप्रियत्वसुखप्रियत्वरूपामधिकं पश्येत्, आत्मतुल्यान् सर्वानपि प्राणिनः पालयेदिति । किञ्च - गारंपिअ आवसे नरे, अनुपुव्वं पाणेहिं संजए । समता सव्वत्थ सुव्वते, देवाणं गच्छे सलोगयं ॥
मू. (१५५)
वृ. 'अगारमपि ' गृहमप्यावसन्- गृहवासमपि कुर्वन् 'नरो' मनुष्यः 'आनुपूर्व 'मिति आनुपूर्व्या-श्रवणधर्मप्रतिपत्त्यादिलक्षणया प्राणिषु यथाशक्त्या सम्यक् यतः संयतः तदुपमछन्निवृत्तः किमिति ? यतः 'समता' समभावः आत्मपरतुल्यता 'सर्वत्र' यतौ गृहस्थे च यदिवैकेन्द्रियादी ‘श्रूयते' अभिधीयते आर्हते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् 'देवानां' पुरन्दरादीनां 'लोकं' स्थानं गच्छेत्, किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति ॥ मू. (१५६) सोचा भगवानुसासणं, सच्चे तत्थ करेज्जवक्क मं ।
सव्वत्य विनीयमच्छरे, उच्छं भिक्खु विसुद्धमाहरे ।।
वृ. अपिच-ज्ञानैश्वर्यादिगुणसमन्वितस्य भगवतः सर्वज्ञस्य शासनम्-आज्ञामागमं वा 'श्रुत्वा' अधिगम्य 'तत्र' तस्मिन्नागमे तदुक्ते वा संयमे सद्यो हिते सत्ये लघुकर्मा तदुपक्रमंतव्याप्युपायं कुर्यात् किम्भूतः ? - सर्वात्रापनीतो मत्सरो येन स तथा सोऽरक्तद्विष्टः क्षेत्रवस्तूपधिशरीरनिष्पिपासः, तथा 'उछं' ति भैक्ष्यं विशुद्धं द्विचत्वारिंशद्दोषरहितमाहारं गृह्णीयादभ्यवहरेद्वेति मू. (१५७) सव्वं नच्चा अहिट्ठए, धम्मट्टी उवहाणवीरिए ।
गुत्ते जुत्ते सदाजए, आयपरे परमायतट्ठितै ।।
वृ. 'सर्वम्' एतद्धेयमुपादेयं च ज्ञात्वा सर्वज्ञोक्तं मार्गं सर्वसंवररूपम् 'अधितिष्ठेत्' आश्रयेत्, धर्मेणार्थो धर्म एव वाऽर्थ परमार्थेनान्यस्थानर्थरूपत्वात् धर्मार्थः स विद्यते यस्यासौ धर्मार्थीधर्मप्रयोजनवान्, उपधानं तपस्तत्र वीर्यं यस्य स तथा अनिगूहितबलवीर्य इत्यर्थ, तथा मनोवाक्कायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभि 'सदा' सर्वकालं यतेताऽऽत्मनि परस्मिंश्चा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org