________________
८६
.
सूत्रकृताङ्ग सूत्रम् १/२/३/१५७
किंविशिष्टः सन् ? अत आह-परम-उत्कृष्ट आयतो-दीर्घ सर्वकालभवनात् मोक्षस्तेनार्थिकःतदभिलाषीपूर्वोक्तविशेषणविशिष्टो भवेदिति ।। मू. (१५८) वित्तं पसवो य नाइओ, तंबाले सरणं ति मन्त्रा।
एते मम तेसुवी अहं, नो ताणं सरणं न विजई।। वृ.पुनरप्युपदेशान्तरमाह-वित्तं' धनधान्यहिरण्यादि 'पशवः' करितुरगगोमहिष्यादयो 'ज्ञातयः स्वजना मातापितृपुत्रकलत्रादयः तदेतद्वित्तादिकं बालः' अज्ञःशरणं मन्यते, तदेव दर्शयति-ममैते वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते, तेषुचार्जनपालनसंरक्षणादिनाशेषोपद्रवनिराकरणद्वारेणाहं भवामीत्येवं बालो मन्यते, न पुनर्जानीते यदर्थ धनमिच्छन्ति तच्छरीरमशाश्वतमिति, अपिच - ॥१॥ "रिद्धी सहावतरला रोगजराभंगरंहयसरीरं।
दोहंपि गमणसीलाण किच्चिरं होज्ज संबंधो?॥ ॥२॥ (तथा) मातापितृसहस्राणि, पुत्रदारशतानि च।
प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपिवा? ॥ एतदेवाह-'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रुतस्य क्वचिच्छरणं विद्यत इति॥ एतदेवाहमू. (१५९) अब्मागमितंमि वा दुहे, अहवा उक्क.मिते भवंतिए।
एगस्स गती य आगती, विदुमंता सरणं न मन्नई। वृ.पूर्वोपात्तासातवेदनीयोदयेनाभ्यागतेदुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किञ्चिक्रियते, तथाच. ॥१॥ "सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सइ इहेगो। .
सयणोविय से रोगं, न विरंचइनेव नासेइ ।। अथवा उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवानतरे भवान्तिके वा-मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति, विद्वान्' विवेकी यथावस्थितसंसारस्वभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते, कुतः? सर्वात्मना त्राणमिति, तथाहि॥१॥ “एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते।
तस्मादाकालिकहितमेकेनैवात्मनः कार्यम्॥ ॥२॥ एक्को करेइ कम्मं फलमवि तस्सिकओ समणुहवइ।
एको जायइ मरइय परलोयं एकओ जाइ ।। मू. (१६०) सब्वे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो ।
हिंडंति भयाउला सढा जाइजरामरणेहिऽभिद्रुता ।। वृ.अन्यच्च-सर्वेऽपि संसारोदरविवरवर्तिनःप्राणिनः संसारेपर्यटन्तः स्वकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः-सूक्ष्मबादरपर्याप्तकापर्याप्तकैकेन्द्रियादिभेदेन व्यवस्थिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायाम् 'अव्यक्तेन' अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभा-वेनोपलक्षणार्थत्वात् प्रव्यक्तेन च 'दुःखेन' असातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org