________________
श्रुतस्कन्धः - १, अध्ययनं-२,उद्देशकः-३
८७
अरघट्टघटीयन्त्रन्यायेन तास्वेव योनिषु भयाकुलाः शठकर्मकारित्वात् शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिदुःखैः पीडिता इति । किञ्चमू. (१६१) इणमेव खणं वियाणिया, नो सुलभं बोहिं च आहितं ।
एवं साहिएऽहिपासए, आह जिणे इणमेव सेसगा ।। वृ. इदमः प्रत्यक्षासन्नवाचित्वात् इम-द्रव्यक्षेत्रकालभावलक्षणं 'क्षणम्' अवसरं ज्ञात्वा तदुचितं विधेयं, तथाहि-द्रव्यं जङ्गमत्वपञ्चेन्द्रियत्वसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमप्याय'देशार्धषड्विंशति- जनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादि धर्मप्रतिपचियोग्यलक्षणः भावश्चधर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपच्युत्साहलक्षणः, तदेवंविधं क्षणम् अवसरंपरिज्ञाय तथा 'बोधिंच' सम्यग्दर्शनावाप्तिलक्षणांनो सुलभामिति, एवमाख्यातमवगम्य तदवाप्तौ तदनुरूपमेव कुर्यादिति शेषः, अकृतधर्माणां च पुनर्दुर्लभा बोधि, तथाहि - ॥१॥ “लद्धेल्लियं च बोहिं अकरेंतो अनागयं च पत्थेतो।
अन्नं दाइंबोहिं लब्भिसि कयरेण मोल्लेणं? ॥ तदेवमुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादिभिरधिपश्येत्-बोधिसुदुर्लभत्वं पर्यालोचयेत्, पाठान्तरंवा अहियासएत्ति परीषहानुदीर्णान् सम्यगधिसहेत। एतच्चाऽऽह जिनो रागद्वेषजेता नाभेयोऽष्टापदे स्वान्सुतानुद्दिश्य, तथाऽन्येऽपि इदमेव शेषका जिना अभिहितवन्त इति॥ मू. (१६२) अभविंसु पुरावि भिक्खुवो, आएसावि भवंति सुव्वता।
एयाइं गुणाई आहु ते कासवस्स अनुधम्मचारिणो॥ वृ. एतदाह-हे भिक्षवः-साधवः!, सर्वज्ञःस्वशिष्यानेवमामन्त्रयति, येऽभूवन्-अतिक्रान्ता 'जिनाः' सर्वज्ञाः ‘आएसावित्ति आगमिष्याश्च ये भविष्यन्ति, तान् विशिनष्टि-'सुव्रताः' शोभनव्रताः, अनेनेदमुक्तं भवति-तेषामपि जिनत्वं सुव्रतत्वादेवायातमिति, ते सर्वेऽप्येतान्-अनन्तरोदितान् गुणान् ‘आहुः' अभिहितवन्तः, नात्र सर्वज्ञानां कश्चिन्मतभेद इत्युक्तं भवति, ते च 'काश्यपस्य' ऋषभस्वामिनो वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मोक्षमार्ग इत्यावदितं भवतीति ।।
अभिहितांश्च गुणानुद्देशत आहमू. (१६३) तिविहेणवि पाण मा हणे, आयहिते अनियाण संवुडे ।
एवं सिद्धा अनंतसो, संपइ जे अअनागयावरे । वृ. 'त्रिविधेन' मनसा वाचा कायेन यदिवा-कृतकारितानुमतिभिर्वा 'प्राणिनो' दशविधप्राणभाजो मा हन्यादिति, प्रथममिदं महाव्रतम्, अस्य चोपलक्षणार्थत्वात् एवं शेषाण्यपि द्रष्टव्यानि, तथाऽऽत्मनेहित आत्महितः, तथा नास्य स्वर्गावाप्त्यादिलक्षणं निदानमस्तीत्यनिदानः, तथेन्द्रियनोइन्द्रियैर्मनोवाक्कायैर्वा संवृतस्त्रिगुप्तिगुप्त इत्यर्थः, एवम्भूतश्चावश्यं सिद्धिमवाप्नोतीत्येतद्दर्शयति – “एवम्' अनन्तरोक्तमार्गानुष्ठानेनानन्ताः 'सिद्धा' अशेषकर्मक्षयभाजः संवृत्ता विशिष्टस्था-नभाजो वा, तथा 'सम्प्रति वर्तमाने काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे वा अनागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भावार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org