________________
८८
सूत्रकृताङ्ग सूत्रम् १/२/३/१६४ मू. (१६४)एवं से उदाहु अनुत्तरनाणी अनुत्तरदंसी अनुत्तरनाणदंसणधरे।
अहा नायपुत्ते भगवं वेसालिए वियाहिए। तिबेमि।। वृ. एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः स्वशिष्येभ्यः प्रतिपादयतीत्याह-‘एवं से' इत्यादि एवम्' उद्देशकत्रयाभिहितनीत् ‘स ऋषभस्वामी स्वपुत्रानुद्दिश्य उदाहृतवान् प्रतिपादितवान्, नास्योत्तरं-प्रधानमस्तीत्यनुत्तरं तच्च तज्ञानं च अनुत्तरज्ञानं तदस्यास्तीत्यनुत्तरज्ञानी तथाऽनुत्तर-दर्शी, सामान्यविशेषपरिच्छेदकावबोधस्वभाव इति, बौद्धमतनिरासद्वारेण ज्ञानाधारं जीवंदर्शयितु-माह-'अनुत्तरज्ञानदर्शनधर' इति कथञ्चिभिन्नज्ञानदर्शनाऽऽधार इत्यर्थ,: 'अर्हन्' सुरेन्द्रादिपूजा)ज्ञातपुत्रो वर्द्धमानस्वामीऋषभस्वामी वा भगवान् एश्वर्यादिगुणयुक्तो विशाल्यां नगर्या वर्द्धमानोऽस्माकमाख्यातवान्, ऋषभस्वामीवाविशालकुलोद्भवत्वाद्वैशालिकः, तथा चोक्तम्॥१॥
"विशाला जननी यस्य, विशालं कुलमेव वा।
विशालं प्रवचनं चास्य, तेन वैशालिको जिनः॥ एवमसौ जिनआख्यातेति।इतिशब्दः परिसमाप्त्यर्थो, ब्रवीमीतिउक्तार्थो, नयाः पूर्ववदिति
अध्ययनं-२-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाकाचार्यविरचिता प्रथम श्रुतस्कन्धस्य द्वीतीय अध्ययन टीका परिसमाप्ता।
-अध्ययन-३ उपसर्ग परिज्ञाःवृ. उक्तं द्वितीयमध्यनम्, अधुना तृतीयामारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरं स्वसमयपरसमयप्ररूपणाऽमिहिता, तथा परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्येतच्चाभिहितं, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोत्थितस्य सतः कदाचिदनुकूलप्रतिकूलोपसर्गा प्रादुर्भवेयुः, ते चोदीर्णा सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते।
ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्र मान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः ‘संबुद्धस्सुवसग्गा' इत्यादिना प्रथमाध्ययने प्रतिपादितः, उद्देशार्थाधिकारंतूतरत्र स्वयमेवनियुक्तिकारः प्रतिपादयिष्यतीति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाहनि. [४५] उवसग्गंमि य छवं दब्वे चेयणमचेयणं दुविहं ।
आगंतुगो य पीलाकरोय जो सो उवस्सग्गो॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् उपसर्गाषोढा, तत्र नामस्थापने क्षुण्णत्वादनात्य द्रव्योपसर्ग दर्शयति-'द्रव्ये' द्रव्यविषये उपसर्गो द्वेधा, यतस्तद्रव्यमुपसर्गकर्तृ चेतनाचेतनभेदात् द्विविधं, तत्र तिर्यङ्मनुष्यादयः स्वावयवाभिघातेन यदुपसर्गयन्ति स सचित्तद्रव्योपसर्ग, स एव काष्ठादिनेतरः । तत्त्वभेदपर्यायव्याख्येति, तत्रोपसर्ग उपतापः शरीरपीडोत्पादनमित्यादिपर्यायाः, भेदाश्चतिर्यङमनुष्योपसर्गादयः नामादयश्च, तत्वव्याख्यातुनियुक्तिकृदेव गाथापश्चार्द्धनदर्शयतिअपरस्माद्दिव्यादेः आगच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति क्षेत्रोपसर्गानाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org