________________
-
श्रुतस्कन्धः - १, अध्ययनं ३, उद्देशक:
नि. [४६ ]
८९
खेत्तं बहुओघपयं कालो एगंतदूसमादीओ । भावे कम्मरमुदओ, सो दुविहो ओघुवक्कमिओ ॥
वृ. यस्मिन् क्षेत्रे बहून्योघतः - सामान्येन पदानि क्रूरचौराद्युपसर्गस्थानानि भवन्ति तत्क्षेत्रं बह्वोघपदं, पाठान्तरं वा 'बह्वोघभयं' बहून्योघतो भयस्थानानि यत्र तत्तथा, तच्च लाढादिविषयादिकं क्षेत्रमिति, कालस्त्वेकान्तदुष्षमादि, आदिग्रहणात् यो यस्मिन् क्षेत्रे दुःखोत्पादको ग्रीष्मादि स गृह्यत इति, कर्मणां ज्ञानावरणीयादीनामभ्युदयो भावोपसर्ग इति, सच उपसर्ग सर्वोऽपि सामान्येन औधिक पक्रमिकभेदात् द्वेधा, तत्रौधिकोऽशुभकर्मप्रकृतिजनितो भावोपसर्गो भवति, औपक्रमिकस्तु दण्डकशस्त्रादिनाऽसातवेदनीयोदयापादक इति तत्रौधिकौपक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याहनि. [ ४७ ]
उवक्कमिओ संयमविग्घकरे तत्थुवक्कमे पगयं । दव्वे चउव्विहो देवमणुयतिरियायसंवेत्तो ॥
वृ. उपक्रमणमुपक्रमः कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थ, एतच्च यदद्रव्योपयोगात् येन वा द्रव्येणा सातावेदनीयाद्यशुभं कर्मोदीर्यते यदुदयाच्चाल्पसत्त्वस्य संयमविधातो भवति अत औपक्रमिक उपसर्ग संयमविधातकारीति, इह च यतीनां मोक्षं प्रति प्रवृत्तानां संयमो मोक्षाङ्गं वर्तते तस्य यो विघ्नहेतुः स एवात्राधिक्रियत इति दर्शयति तत्र-औधिकौपक्रमिकयोरौपक्रमिके न 'प्रकृतं' प्रस्तावः तेनात्राधिकार इतियावत्, सच 'द्रव्ये' द्रव्यविषयश्चिन्त्यमानश्चतुर्विधो भवति, तद्यथा- दैविको मानुषस्तैरश्च आत्मसंवेदनश्चेति ।। साम्प्रतमेतेषामेव भेदमाह
नि. [४८ ]
एक्केको य चउविहो अट्ठविहो वावि सोलसविहो वा ।
घडण जयणा व तेसिं एत्तो वोच्छं अहि यारं ॥
वृ. एकैको दिव्यादि 'चतुर्विधः ' चतुर्भेदः, तत्र दिव्यस्तावत् हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातश्चेति, मानुषा अपि हास्यतः प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातश्च, तैरश्चा अपि चतुर्विधाः, तद्यथा भयात् प्रद्वेषाद् आहारादपत्यसंरक्षणात्, आत्मसंवेदनाः चतुर्विधाः, तद्यथाघट्टनातो लेशनातः - अङ्गुल्याद्यवयवसंश्लेषरूपायाः स्तम्भनातः प्रपाताच्चेति, यदिवावातपित्तश्लेष्मसंनिपातजनितश्चतुर्धेति, स एव दिव्यादिश्चतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति, स एव दिव्यादि प्रत्येकं यश्चतुर्धा प्राग्दर्शितः स चतुर्णां चतुष्ककानां मेलापकात् षोडशभेदो भवति, तेषां चोपसर्गाणा यथा घटना-सम्बन्धः प्राप्ति प्राप्तानां चाधिसहनं प्रति यतना भवति तथाऽत उर्द्धमध्ययनेन वक्ष्यते इत्ययमत्रार्थाधिकार इति भावः । उद्देशार्थाधिकारमधिकृत्याहनि. [४९ ) पढमंमि य पडिलोमा हुंती अनुलोमगा य बितियंमि । तइए अज्झत्तविसोहणं च परवादिवयणं च । उसरिसेहिं अहे उएहिं समयपडिएहिं निउणेहिं ।
नि. [५० ]
सीलखलितपन्नवणा कया चउत्थंमि उद्देसे ॥
प्रथमे उद्देशके 'प्रतिलोभाः' प्रतिकूला उपसर्गा प्रतिपाद्यन्त इति, तथा द्वितीये 'ज्ञातिकृताः' स्वजनापादिता अनुलोमा - अनुकूला इति, तथा तृतीये अध्यात्मविषीदनं परवादिवचनं चेत्ययमधिकार इति, चतुर्थोद्देशके अयमर्थाधिकारः । तद्यथा - 'हेतुसद्दशैः' हेत्वाभासैर्येऽन्यतैर्थिकैर्व्युदाहिताः- प्रतारितास्तेषां शीलस्खलितानां व्यामोहितानां प्रज्ञापना- यथावस्थितार्थप्ररूपणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org