________________
श्रुतस्कन्धः-१, अध्ययनं-१०,
२०९
लाषिणएतत्कुर्वन्ति। तद्यथा-'जातस्य उत्पन्नस्य बालस्य अज्ञस्यसदसद्विवेकविकलस्य सुखैषिणो 'देह' शरीर 'पकुव्व'त्ति खण्डशः कृत्वाऽऽत्मनः सुखमुत्पादयन्ति, तदेवं परोपघातक्रियां कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारिप्रकर्षण वर्धते, पाठान्तरंवा-जायाए बालस्स पगब्मणाए-'बालस्य' हिंसादिषुकर्मसुप्रवृत्तस्य निरनुकम्पस्य या जाता 'प्रगल्भता' घाष्र्यं तया वैरमेव प्रवर्धत इति सम्बन्धः । मू. (४९०) आउक्खयं चेव अबुझमाणे, ममाति से साहसकारि मंदे।
अहो य राओ परितप्पमाणे, अट्टेसु मूढे अजरामरेव्व ।। वृ. अपिच-आयुषो-जीवनलक्षणस्य क्षय आयुष्कक्षयस्तमारम्भप्रवृत्तः छिनइदमत्स्यवदकक्षये सति अबध्यमानोऽतीव 'ममाईत्तिममत्ववान् इदं मे अहमस्य स्वामीत्येवंस'मन्दः' अज्ञः साहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा-कश्चिद्वणिग् महता क्लेशेन महार्धाणि रत्नानि समासाद्योञ्जयिन्या बहिरावासितः ।
___ स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयिष्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयंन ज्ञानवान्, अह्रयेव रलानिप्रवेशयन राजपुरुषैरलेभ्यश्चयावित इति, एवमन्योऽपि किंकर्तव्यताकुलः स्वायुषः क्षयमबुध्यमानः परिग्रहेष्वारम्भेषुचप्रवर्तमानः साहसकारी स्यादिति, तथा कामभोगतृषितोऽहि रात्रीच परि-समन्तात् द्रव्यार्थी परितप्यमानो मम्मणवणिग्दार्तध्यायी कायेनापि क्लिश्यते, तथा चोक्तम् - ॥१॥ "अजरामरवद्वालः, क्लिश्यते धनकाम्यया।
शाश्वतं जीवितं चैव, मन्यमानो धनानि च ।। तदेवमार्तध्यानोपहतः 'कइया वच्चइ सत्थो? किं भंडं कत्थ कित्तिया भूमी त्यादि, तथा 'उक्खणइखणइ निहणइ रत्तिनसुयइ दियावियससंको'इत्यादिचित्तसंक्लेशात्सुष्ठुमूढोऽजरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति।। म.(४९१) जहाहि वित्तं पसवो य सव्वं, जे बंधवा जे य पिया य मित्ता।
लालप्पती सेऽवियएइ मोह, अन्ने जणा तंसि हरंति वित्तं ।। वृ.किश्चान्यत्-'वित्तं द्रव्यजातंतथा पशवो गोमहिष्यादयस्तान् सर्वान् जहाहि परित्यजतेषु ममत्वं मा कृथाः, ये 'बान्धवा' मातापित्रादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया 'मित्राणि' सहपांसुक्रीडितादयस्ते एते मातापित्रादयो न किञ्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रार्थी अत्यर्थं पुनः पुनर्वा लपति लालप्यते।
तद्यथा-हे मातः ! हे पितरित्येवं तदर्थं शोकाकुलः प्रलपति, तदर्जनपरश्च मोहमुपैति, रूपवानपि कण्डरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकवेष्ठिवद् इत्येवमसावप्यसमाधिमान् मुह्यते। यच्च तेन महता क्लेशेनापरप्राण्युपमर्दैनोपार्जितं वित्तंवदन्ये जनाः ‘से' तस्यापहरन्ति जीवत एव मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मत्वा पापानि कर्माणि परित्यजेत्तपश्चरेदिति। मू. (१९२) सीहं जहा खुड्डमिगा चरंता, दूरे चरंती परिसंकमाणा।
___ एवं तु मेहावि समिक्ख धम्म, दूरेण पावं परिवजएज्जा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org