________________
२०८
सूत्रकृताङ्ग सूत्रम् १/१०/-४८६ निष्किञ्चनतया तृणादिकान् स्पर्शानादिग्रहणान्निम्नोन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थम् 'अध्यासयेद् अधिसहेत तथा गन्धं सुरभिमितरंच सम्यक् 'तितिक्षयेत्' सह्यात, चशब्दादाक्रोशवधादिकांश्च परिषहान्मुमुक्षुस्तितिक्षयेदिति। मू. (४८७) गुत्तो वईए य समाहिपत्तो, लेसं समाहलु परिवएजा।
गिहं न छाए नवि छायएजा, संमिस्सभावं पयहे पयासु ॥ वृ.किश्चान्यत्त्वाचि वाचा वा गुप्तो वाग्गुप्तो-मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धां लेश्यां' तैजस्यादिकां समाहृत्य' उपादाय अशुद्धां च कृष्णादिकामपहृत्य परि-समन्तात्संयमानुष्ठाने 'व्रजेत्' गच्छेदिति।
किश्चान्यत्-गृहम्-आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थत्वादस्यापरमपि गृहादेरुरगवत्परकृतबिलनिवासित्वात्संस्कारंन कुर्यात्, अन्यदपि गृहस्थकर्तव्यं परिजिहीर्षुराहप्रजायन्त इति प्रजास्तासु-तद्विषयेयेन कृतेन सम्मिश्रभावोभवति ताजह्यात्, एतदुक्तं भवतिप्रव्रजितोऽपि सन्पचनपाचनादिकां क्रियांकुर्वन कारयंश्चगृहस्थैः सम्मिश्रभावं भजते, यदिवाप्रजाः-स्त्रियस्तासु ताभिर्वा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात' परित्यजेदिति । मू. (४८८) जे केइ लोगंमि उ अकिरियआया, अनेण पुट्ठा धुयमादिसंति।
आरंभसत्ता गढिता य लोए, धम्मन जाणंति विमुक्खहेउं ।। वृ.अपिच-येकेचनअस्मिन् लोके अक्रियआत्मा येषामभ्युपगमेतेऽक्रियात्मानः-साङ्ख्याः, तेषां हि सर्वव्यापित्वादात्मा निष्क्रियः पठ्यते, तथा चोक्तम्-"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, तुशब्दो विशेषणे, स चैतद्विशिनष्टि-अभूर्तत्वव्यापित्वाभ्यामात्मनोऽक्रियत्वमेव बुध्यते। ते चाक्रियात्मवादिनोऽन्येनाक्रियत्वेसतिबन्धमोक्षौनघटेतेइत्यभिप्रायवता मोक्षसद्भावं पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि 'धूतं मोक्षं तदभावम् (च) आदिशन्ति प्रतिपादयन्ति, तेतु पचनपाचनादिके स्नानार्थं जलावगाहनरूपे वा 'आरम्भे सावद्ये 'सक्ता' अध्युपपन्ना गद्धास्तु लोके मोक्षैकहेतुभूतं 'धर्म' श्रुतचारित्राख्यं न जानन्ति' कुमार्गग्राहिणो न सम्यगवगच्छन्तीति ।
-किञ्चान्यत्-- मू. (४८९) पुढो य छंदा इह माणवा उ, किरियाकिरीयं च पुढो य वायं।
जायस्स बालस्स पकुव्व देहं पवड्ढती बेरमसंजतस्स ।। घृ. पृथक् नाना छन्दः-अभिप्रायो येषां ते पृथकछन्दा ‘इह' अस्मिन्मनुष्यलोके मानवा' मनुष्याः, तुरवधारणे, तमेव नानाभिप्रायमाह-क्रियाऽक्रिययोः पृथक्त्वेन क्रियावादमक्रियावाद च समाश्रिताः, तद्यथा॥१॥ "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम्।
यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ।। इत्येवं क्रियैव फलादायित्वेनाभ्युपगता, क्रियावादमाश्रिताः, एवमेतद्विपर्ययेणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्रस्वरूपंन्यक्षेण वक्ष्यते, तेचनानाभिप्रायामानवाः क्रियाक्रियादिकं पृथग्वादमाश्रिता मोक्षहेतुंधर्ममजानाना आरम्भेषुसक्ता इन्द्रियवशगारससातागौरवाभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org