________________
श्रुतस्कन्धः - १, अध्ययनं - १०,
मू. (४८३) आहाकडं वा न निकामएजा, निकामयंते य न संथवेज्जा । धुणे उरालं अणुवेहमाणे, चिच्चा न सोयं अणवेक्खमाणो ।। वृ. अपिच साधूनाधाय कृतमाधाकृतमौद्देशिकमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारजातं निश्चयेनैव 'न कामयेत्' नाभिलषेत् तथाविधाहारादिकं च 'निकामयतः' निश्चयेनाभिलषतः पार्श्वस्थादींस्तत्सम्पर्कदानप्रतिग्रहसंवाससम्भाषणादिभिः न संस्थापयेत्-नोपबृंहयेत् तैर्वा सार्धं संस्तवं न कुर्यादिति, किञ्च - 'उरालं' ति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो 'धुनीयात्' कृशं कुर्यात्, यदिवा 'उरालं'ति बहुजन्मान्तरसञ्चितं कर्म तदुदारं-मोक्षमनुप्रेक्षमाणो 'धुनीयाद्' अपनयेत्, तस्मिंश्च तपसा धूयमाने कृशीभवति शरीरके कदाचित् शोकः स्यात् तं त्यक्त्वा याचितोपकरम- वदनुप्रेक्षमाणः शरीरकं धुनीयादिति सम्बन्धः ।
मू. (४८४) एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खो न मुसंति पासं । एसम्पमोक्खे अमुसे वरेवि, अकोहणे सच्चरते तवस्सी ।
वृ. किञ्चापेक्षेतेत्याह-एकत्वम् - असाहयत्वमभिप्रार्थयेद् एकत्वाध्यवसायी स्यात्, तथाहिजन्मजरामरणरोगसोकाकुले संसारे स्वकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्राणसमर्थ सहायः स्यात्, तथा चोक्तम्
॥१॥
२०७
"एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संयोगलक्खणा ॥
इत्यादिकामेकत्वभावनां भावयेद्, एवमनयैकत्वभावनया प्रकर्षेण मोक्षः प्रमोक्षोविप्रमुक्तसङ्गता, न ‘मृषा' अलीकमेतद्भवतीत्येवं पश्य, एष एवैकत्वभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूपः- सत्यश्चायमेव । तथा 'वरोऽपि' प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः 'तपस्वी' तपोनिष्टतदेहोऽक्रोधनः, उपलक्षणार्थत्वादस्यामानो निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष 'अमृषा' सत्यो 'वरः' प्रधानश्च वर्तत इति । किञ्चान्यत्
मू. (४८५) इत्थीसु या आरय मेहुणाओ, परिग्गहं चेव अकुव्वमाणे । उच्चावसु विससु ताई, निस्संसयं भिक्खु समाहिपत्ते ॥
वृ. दिव्यमानुषतिर्यगुरूपासु त्रिविधास्वपि स्त्रीषु विषयभूतासु यत् 'मैथुनम्' अब्रह्म तस्माद् आ-समन्तान्नरतः- अरतो निवृत्त इत्यर्थः, तुशब्दाव्याणातिपातादिनिवृत्तश्च तथा परि-समन्ताद्गृह्यते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः तथा आत्माऽऽत्मीयग्रहस्तं चैवाकुर्वाणः सनुच्चावचेषु नानारूपेषु विषयेषु यदिवोच्चा उत्कृष्टा अवचा - जघन्यास्तेष्वरक्तद्विष्टः ।
'त्रायी' अपरेषां च त्राण भूतो विशिष्टोपदेशदानतो 'निसंशयं' निश्चयेन परमार्थतो 'भिक्षु' साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमांधिं प्राप्तो भवति, नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधिं प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः । मू. (४८६) अरइं रइंच अभिभूय भिक्खू, तणाइफासं तह सीयफासं ।
उन्हं च दंसं चऽहियासएञ्जा, सुडिंभ व दुबिंभ व तितिक्खएज्जा ।।
वृ. विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह-स भावभिक्षु परमार्थदर्शी शरीरादौ निस्पृहो मोक्षगमनैकप्रवणश्च या संयमेऽरतिरसंयमे च रतिर्वा तामभिभूय एतदधिसहेत् । तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org