________________
२०६
सूत्रकृताङ्ग सूत्रम् १/१०/-/४७९ प्रार्थयेत् ‘श्लोककामी च' श्लाघाभिलाषी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते कश्चिदिति ।। मू. (४८०) आहाकडं चैव निकाममीणे, नियामचारी य विसन्नमेसी।
इत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुव्वमाणे ।। वृ.किञ्चान्यत्-साधूनाधाय-उद्दिश्य कृतं निष्पादितमाधाकर्मेत्यर्थ, तदेवम्भूतमाहारोपकरणादिकं निकामम्-अत्यर्थं यः प्रार्थयते स निकाममीणेत्युच्यते । तथा निकामम्' अत्यर्थं आधाकर्मादीनितनिमित्तं निमन्त्रणादीनिवासरति-चरतितच्छीलश्च सतथा, एवम्भूतः पावस्थावसन्नकुशीलानांसंयमोद्योगेविषण्णानांविषण्णभावमेषत, सदनुष्ठानविषण्णतया संसारपत्रावसन्नो भवतीतियावत्, अपिच ‘स्त्रीषु' रमणीषु आसक्तः' अध्युपपन्नः पृथक् पृथक् तद्भाषितहसितविव्वोकशरीरावयवेष्विति, बालवद् 'बाल' अज्ञः सदसद्विवेकविकलः ।
तदवसक्ततया च नान्यथा-द्रव्यमन्तरेण तत्सम्प्राप्तिर्भवतीत्यतो येन केनचिदुपायेन तदुपायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुच्चिनोतीति तथामू. (४८१) राणुगिद्धे निचयं करेति, इओ चुते स इहमढ्दुग्गं।
तम्हा उ मेघावि समिक्ख धम्म, चरे मुनी सबउ विप्पमुक्के ।। वृ. येन केन कर्मणा-परोपतापरूपेण वैरमनुबध्यते जन्मान्तरशतानुयायि भवति तत्र गृद्धो वैरानुगृद्धः, पाठान्तरंवा 'आरंभसत्तो'त्तिआरम्भेसावद्यानुष्ठानरूपेसक्तो-लग्नो निरनुकम्पो 'निचयं द्रव्योपचयं तन्निमित्तापादितकर्मनिचयं वा 'करोति' उपादत्ते।
___ 'स' एवम्भूत उपात्तवैरः कृतकर्मोपचय इतः' अस्मात्स्थानात् 'च्युतो' जन्मान्तरं गतः सन् दुःखयतीति दुःखं-नरकादियातनास्थानमर्थतः-परमार्थतो दुर्ग-विषमं दुरुत्तरमुपैति, यत एवंतत्तस्मात् 'मेघावी' विवेकी मर्यादावान् वा सम्पूर्णसमाधिगुणंजानानो 'धर्म' श्रुतचारित्राख्यं 'समीक्ष्य' आलोच्याङ्गीकृत्य 'मुनि' साधुः सर्वतः' सबाह्याभ्यन्तरात्सत् 'विप्रमुक्तः' अपगतः संयमानुष्ठानमुक्तिगमनैकहेतुभूतं चरेद्' अनुतिछेत्, स्त्र्यारम्भादिसङ्गाद्विप्रमुक्तोऽनिश्रितभावेन विहरेदितियावत्। मू. (४८२) आयं न कुजा इह जीवियट्ठी, असज्जमाणो य परिव्वएना।
णिसम्मभासी य विनीय गिद्धिं, हिंसनियंवा न कह करेज्जा ।। वृ. किञ्चान्यत्-आगच्छतीत्यायो-द्रव्यादेलभिस्तन्निमित्तापादितोऽटप्रकारकर्मलाभो वा तम् इह' अस्मिन् संसारे 'असंयमजीवितार्थी' भोगप्रधानजीविता त्यर्थः, यदिवा-आजीविकाभयात् द्रव्यसञ्चयं न कुर्यात्, पाठान्तरंवाछन्दणं कुञ्जाइत्यादि, छन्दः-प्रार्थनाऽभिलाष इन्द्रियाणां स्वविषयाभिलाषोवातत्न कुर्यात्, तथा असजमानः' सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत् उद्युक्तविहारी भवेत्।
तथा 'गृद्धिं' गायं विषयेषु शब्दादिषु 'विनीय' अपनीय 'निशम्य' अवगम्य पूर्वोत्तरेण पर्यालोच्य भाषको भवेत्, तदेव दर्शयति-हिंसया-प्राण्युपमर्दरूपया अन्वितां-युक्तां कथां न कुर्यात्, न तत् ब्रूयात् यत्परात्मनो उभयोवा बाधकं वच इति भावः, तद्यथा-अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथां पापोपादनाभूतां न कुर्यादिति)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org