________________
२१०
सूत्रकृताङ्ग सूत्रम् १/१०/-/४९२
वृ. तपश्चरणोपायमधिकृत्याह-यथा 'क्षुद्रमृगा' क्षुद्राटव्यपशवो हरिणजात्याद्याः 'चरन्तः' अटव्यामटन्तः सर्वतो बिभ्यतः परिशङ्कमानाः सिंहं व्याघ्रं वा आत्मोपद्रवकारिणं दूरेण परिहृत्य 'चरन्ति' विहरन्ति । एवं 'मेघावी' मर्यादावान्, तुर्विशेषणे, सुतरां धर्मं 'समीक्ष्य' पर्यालोच्य 'पाप' कर्म असदनुष्ठानं दूरेण मनोवाक्कायकर्मभिः परिहृत्य परि-समन्ताद्व्रजेत्, संयमानुष्ठायी तपश्चारी च भवेदिति, दूरेण वा पापं पापहेतुत्वात्सावद्यानुष्ठानं सिंहमिव मृगः स्वहितमिच्छन् परिवर्जयेत् परित्यजेदिति अपिच
भू. (४९३) संबुज्झमाणे उ नरे मतीमं, पावाउ अप्पाण निवट्टएजा । हिंसप्पसूबाई दुहाई मत्ता, वेरानुबंधीणि महभयाणि ॥
वृ. मननं मति सा शोभना यस्यास्त्यसी मतिमान्, प्रशंसायां मतुप्, तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यक् श्रुतचारित्राख्यं धर्मं भावसमाधिं वा 'बुध्यमानस्तु' विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्वं तावन्निषिद्धाचरणान्निवर्तेत अतस्तत् दर्शयति- 'पापात्' हिंसानृतादिरूपात्कर्मण आत्मानं निवर्तयेत्, निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव आश्र वद्वाराणि निरुन्ध्यादित्यभिप्रायः ।
किं चान्यत्-हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रसूतानि जातानि यान्यशुभानि कर्माणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुबन्धन्ति तच्छीलानि च वैरानुबन्धीनि जन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशात्तानि महाभयानीति, एवं च मत्वा मतिमानात्मानं पापान्निवर्तयेदिति, पाठान्तरं वा 'निव्वाणभूए व परिव्वज्जा' अस्यायमर्थ यथा हि निर्वृतो निर्व्यापारत्वात्कस्यचिदुपघाते न वर्तते एवं साधुरपि सावद्यानुष्ठानरहितः परि-समन्ताद् व्रजेदिति ।
मू. (४९४) मुसं न बूया मुनि अत्तगामी, निव्वाणमेयं कसिणं समाहिं ।
सयं न कुज्जा न य कारवेज्जा, करंतमन्नपि य नाणुजाणे ॥
वृ तथा आप्तो- मोक्षमार्गस्तद्गामी - तदमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनि' साधुः 'मृषावादम्' अनृतमयर्थाथ न ब्रूयात् सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषावादवर्जनं 'कृत्स्नं' संपूर्ण भावसमाधिं निर्वाणं चाहुः ।
सांसारिका हि समाधयः स्नानभोजनादिजनिताः शब्दादिविषयसंपादिता था अनैकान्तिकानात्यन्तिकत्वेन दुःखप्रतीकाररूपत्वेन वा असंपूर्णा वर्तन्ते । तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयमात्मना न कुर्यान्नाप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाक्कायकर्मभिर्नानुमन्येत इति । मू. (४९५) सुद्धे सिया जाए न दूसएज्जा, अमुछिए न य अज्झोववन्ने । घितिमं विमुक्केन य पूयणट्टी, न सिलोयगामी य परिव्वएज्जा ।।
वृ. उत्तरगुणानधिकृत्याह-उद्गमोत्पादनैषणाभिः ‘शुद्धे' निर्दोषे 'स्यात्' कदाचित् 'जाते' प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत्, उक्तं च
॥ १ ॥
"बायालीसेसणसंकडंमि गहणंमि जीव ! नहु छलिओ । इहि जह न छलिज्जसि भुंजंतो रागदो सेहिं ॥
तत्रापि रागस्य प्राधान्यख्यापनायाह-न मूर्च्छितोऽमूर्च्छितः सकृदपि शोभनाहारलाभे सति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org