________________
श्रुतस्कन्धः - १, अध्ययनं-१०,
२११
गृद्धिमकुर्वन्नाहारयत्ति तथा अनध्युपपन्नस्तमेवाहारं पौनःपुन्येनानभिलषमाणः केवलं संयमयात्रापालनार्थमाहारमाहारयेत्, प्रायोविदितवेद्यस्यापि विशिष्टाहारसन्निधावभिलाषारितेको जायत इत्यतोऽमूर्छितोऽनध्युपपन्न इति च प्रतिषेधद्वयमुक्तम्, उक्तं च -- ॥१॥ “भुत्तभोगो पुरा जोऽवि, गीयत्थोऽवि य भाविओ।
___संतेसाहारमाईसु, सोऽवि खिप्पं तु खुब्भइ॥ तथा संयमे धृतिर्यस्यासी धृतिमान् तथा सबाह्याभ्यन्तरेण ग्रन्थेन विमुक्तः तथा पूजन वस्त्रपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्यासौ पूजनार्थी तदेवंभूतो न भवेत्, तथा श्लोकःभ्लाधा कीर्तिस्तद्भामी न तदभिलाषुकः परिव्रजेदिति, कीर्त्यर्थी न काञ्चन क्रियां कुर्यादित्यर्थः । मू. (४९६) निक्खम्म गेहाउ निरावकंखी, कायं विउसेज नियाणछिन्ने।
नो जीवियं नो मरणाभिकंखी, चरेज भिक्खू वलया विमुक्के । वृ.अध्ययनार्थमुपसंजिधृक्षुराह-गेहान्निसृत्य निष्क्रम्यच' प्रव्रजितोऽपिभूत्वा जीवितेऽपि नीराकाङ्क्षी 'कार्य' व्युत्सृज्य निष्प्रतिकर्मतया चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत्।
तथा नजीवितं नापि मरणमभिकाक्षेत्र भिक्षु' साधु वलयात् संसारवलयात्कर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत्, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् ।
अध्ययनं-१० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्यविचरिता प्रथमश्रुतस्कन्धस्य दशमअध्ययनटीका परिसमाप्ता ।
(अध्ययनं-११ "मार्ग" वृ.उक्तंदशममध्ययनं, तदनन्तरमेकादशमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने समाधि प्रतिपादितः, स च ज्ञानदर्शनतपश्चारित्ररूपी वर्तते, भावमार्गोऽप्येवमात्मक एवेत्यतो मार्गोऽनेनाध्ययनेन प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणिवाच्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-प्रशस्तो ज्ञानादिको भावमार्गस्तदाचरणंचात्राभिधेयमिति, नामनिष्पन्नेतुनिक्षेपेमार्ग इत्यस्याध्ययनस्यनाम, तन्निक्षेपार्थं नियुक्तिकृदाहनि. [१०७] नाम ठवणा दविए खेत्ते काले तहेव भावे य।
एसो खलु मग्गस्स य निक्खेवो छव्विहो होइ । वृ. नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मार्गस्य षोढा निक्षेपः, तत्र नामस्थापने सुगमत्वादनाध्त्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यमार्गमधिकृत्याहनि. [१०८] फलगलयंदोलणवित्तरज्जुदवणबिलपासमग्गेय।
रवीलगअयपक्खिपहे छत्तजलाकासदव्वंमि ।। वृ.फलकैर्मार्गफलकमार्ग यत्रकर्दमादिभयात्फलकैर्गम्यते, लतामार्गस्तु यत्र लतावलम्बन गम्यते, अन्दोलनमार्गोऽपि यत्रान्दोलनेनदुर्गमतिलङ्घयते, वेत्रमार्गो यत्र वेत्रलतोपष्टम्भेन जलादौ गम्यते इति, तद्यथा-चारुदत्तो वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः, रज्जुमार्गस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org