________________
२१२
सूत्रकृताङ्ग सूत्रम् १/११/-/४९६/नि. [१०८]
यत्र रज्ज्वा किञ्चिदतिदुर्गमतिलङ्घयते, ‘दवनं'ति यानं तन्मार्गो दवनमार्ग, बिलमार्गो यत्र तु गुहा-द्याकारेण विलेन गम्यते, पाशप्रधानो मार्ग पाशमार्ग पाशकूटवागुरान्वितो मार्ग इत्यर्थः, कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेनबस्त्येन गम्यते, तत्यथा सुवर्णाभूम्यांचारुदत्तोगत इति, पक्षिमार्गोयत्रभारुण्डादिपक्षिभिर्देशान्तरमवाप्यते,छत्रमार्गायत्र छत्रमन्तरेणगन्तुंन शक्यते, जलमार्गोयत्र नावादिनागम्यते, आकाशमार्गो विद्याधरादीनाम्, अयं सर्वोऽपि फलकादिको 'द्रव्ये' द्रव्यविषयेऽवगन्तव्य इति । नि. [१०९] खेत्तंमिमि खेत्ते काले कालो जहिं हवइ जो उ।
भावंमि होति दुविहो पसत्य तह अप्पसत्थो य।। वृ. क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गेःपर्यालोच्यमाने यस्मिन् 'क्षेत्रे ग्रामनगरादौ प्रदेशे वाशिलाक्षेत्रादिके वा क्षेत्रेयोयाति मार्गोयस्मिन्वाक्षेत्रे व्याख्यायतेस क्षेत्रमार्गः, एवं कालेऽप्यायोज्यं । भावे त्वालोच्यमाने द्विविधो भवति मार्ग, तद्यथा प्रशस्तोऽप्रशस्तश्चेति । नि. [११०] दुविहंमिवि तिगभेदो नेओ तस्स विणिच्छओ दुविहो ।
सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्थं ॥ वृ.प्रशस्ताप्रशस्तभेदप्रतिपादनायाह-द्विविधेऽपि' प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येक त्रिविधो भेदोभवति, तत्राप्रशस्तो मिथ्यात्वमविरतिरज्ञानंचेति, प्रशस्तस्तुसम्यग्दर्शनशानचारित्ररूप इति, 'तस्य' प्रशस्ताप्रशस्तरूपस्य भावमार्गस्य 'विनिश्चयो' निर्णयः फलं कार्यं निष्ठा द्वेधा, तद्यथा-प्रशस्तः सुगतिफलोऽप्रशस्तश्च दुर्गतिफल इति।इहतुपुनः प्रस्तावः' अधिकारः 'सुगतिफलेन' प्रशस्तमार्गेणेति। नि. [१११] दुग्गइफलवादीणं तिन्नि तिसट्ठा सताइ वादीणं ।
खेमे य खेमरूवे चउक्कगं मग्गमादीसु॥ वृ.तत्राप्रशस्तं दुर्गतिफलं मागं प्रतिपिपादयिषुस्तकर्तृनिर्दिदिक्षुराह-दुर्गतिफलं यस्य स दुर्गतिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषांप्रावादुकानांत्रीणि त्रिष्ट्यधिकानिशतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टुत्वंचतेषां मिथ्यात्वोपहतहष्टतयाविपरीतजीवादितत्त्वाभ्युपगमात्, तत्संख्या चैवमवगन्तव्या, तद्यथा॥१॥ असियसयं किरियाणं अकिरियवाईण होइ चुलसी।
अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥
तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ॥ साम्प्रतंमार्गभङ्गद्वारेणनिरूपयितुमाह, तद्यथा-एकः क्षेमोमार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितत्वात् तथा क्षेमरूपश्च समत्वात्तथा छायापुष्पफलववृक्षोपेतजलाश्रयकुलत्वाच्च १, तथा परः क्षेमो निश्चौरः किंत्वक्षेमरूप उपलशकलाकुलगिरिनदिकण्टकगशिताकुलत्वेन विषमत्वात्, तथाऽपरोऽक्षेमस्तकरादिभयोपेतत्वाक्षेमरूपश्चोपलशकलाधभावतया समत्वात्, तथाऽन्यो न क्षेमोनापि क्षेमरूपः सिंहव्याघ्रतस्करादिदोषदुष्वात्तथा गर्तापाषाणनिम्नोन्नतादिदोष-दुष्टत्वाचेति, एवं भावमार्गोऽप्यायोज्यः, तद्यथा-ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतश्च साधु क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयमङ्गकगता निवाः, परतीर्थिका गृहस्थाश्चरमभङ्गकवर्तिनोद्रष्टव्याः।एवमनन्तरोक्तया प्रक्रियया चतुष्ककं भङ्गक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org