________________
श्रुतस्कन्धः-१, अध्ययनं-११,
२१३
--
-
-
-
-
-
चतुष्टयं मार्गादिष्वायोज्यं, आदिग्रहणादन्यच्चापि समाध्यादावायोज्यमिति ।
सम्यगमिथ्यात्वमार्गयोः स्वरूपनिरूपणायाहनि. [११२] सम्मप्पणिओ मग्गो णाणे तह दंसणे चरित्ते य ।
चरगपरिव्वायादीचिण्णो मिच्छत्तमग्गोउ ।। वृ.सम्यगज्ञानं दर्शनं चारित्रंचेत्ययंत्रिविधोऽपि भावमार्गः सम्यग्दृष्टिभिः' तीर्थकरगणधरादिभिः सम्यग्वा-यथावस्थितवस्तुतत्त्वनिरूपणया प्रणीतस्तैरेव सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु 'आचीर्ण' आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्तमार्गो भवतीति । तुशब्दोऽस्य दुर्गतिफल-निबन्धनत्वेन विशेषणार्थ इति । नि. [११३] इड्ढिरससायगया छज्जीवनिकायघायनिरया।
जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ॥ वृ. स्वयूथ्यानामपि पावस्थादीनां षड्जीवनिकायोपमर्दकारिणां कुमाश्रितत्वं दर्शयितुमाह-ये केचनअपुष्टधर्माणः शीतलविहारिणःऋद्धिरससातगौरवेण 'गुरुकाः' गुरुकर्माण आधाकर्माधुपभोगाभ्युपगमेन षड्जीवनिकायव्यापादनरताच अपरेभ्यो ‘मार्ग' मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहि-शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेश्चाधाकर्माधुप- भोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति, ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मा-गाश्रिताभवन्तिातुशब्दादेतेऽपिस्वयूथ्याएतदुपदिशन्तः कुमाश्रिता भवन्तीति किंपुनस्तीर्थिका इति। नि. [११४] तवसंजमप्पहजा गुणधारी जे वयंति सब्भावं ।
सव्वजगजीवहियं तमाहु सम्मप्पनीयमिणं ।। वृ.प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह-तपः-सबाह्याभ्यन्तरंद्वादशप्रकारं तथा संयमः-सप्तदशभेदःपञ्चाश्रवविरमणादिलक्षणस्ताभ्यांप्रधानास्तपःसंयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं ‘सद्भावं' परमार्थ जीवाजीवादिलक्षणं वदन्ति' प्रतिपादयन्ति, किंभूतं!- सर्वस्मिन् जगति ये जीवास्तेभ्यो हितंपथ्य तद्रक्षणतस्तेषांसदुपदेशदानतो वा तंसन्मार्ग सम्यङ्मार्गज्ञाः 'सम्यग् अविपरीतत्वेनप्रणीतम् 'आहुः' उक्तवन्त इति। नि. [११५] पंथो मग्गो नओ विहा धिती सुगती हियं (तह) सुहं च ।
पत्यं सेयं निव्वुइ निव्वाणं सिवकरंचेव ।। वृ.-साम्प्रतंसन्मार्गस्यैकार्थिकान्दयितुमाह-देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, सचेहभावमार्गाधिकारे सम्यकत्वावाप्तिरूपोऽवगन्तव्यः १, तथा मार्ग' इति पूर्वस्माद्विशुध्ध्या विशिष्टतरो मार्गः, सचेह सम्यगज्ञानावाप्तिरूपोऽवगन्तव्यः २, तथा न्याय' इति निश्चयेनायनंविशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति स न्यायः, स चेह सम्यकचारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यकचारित्रेण योगो भवतीत्यतोन्यानशब्देनात्र चारित्रयोगोऽभिधीयतइति ३, तथा विधि रिति विधानं विधि: सम्यगज्ञानदर्शनयोर्योगपद्येनावाप्ति ४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org